________________
फेब्रुआरी २०१२
श्रीकनककुशलगणि-रचिता
श्री रत्नाकरपञ्चविंशतिका - वृत्तिः ॥
-
१५
साध्वी समयप्रज्ञाश्री
'रत्नाकरपचीशी'ना नामे जैन संघमां प्रख्यात तथा सौने मान्य एवी संस्कृत रचना आचार्य श्रीरत्नाकरसूरि महाराजे बनावी छे तेनी कथा सर्वविदित छे. तेना गुजराती सहित विविध भाषाओमां गद्य-पद्यानुवादो उपलब्ध छे. तेना पर सम्भवतः १७मा सैकामां थयेल श्रीकनककुशल गणिवर्यनी रचेली टीका अप्रगट होवाथी अहीं प्रकाशित करेल छे. आनी एक प्रत मळी तेना आधारे आवड्युं तेवुं सम्पादन कर्तुं छे. भूलो विद्वानो सुधारशे तेवी खातरी छे. आ टीकामां विशेषता ए छे के टीकाना छेडे गुर्जर भाषामां टबार्थ पण कर्ताए लख्यो छे. आ प्रत सं. १८१०मां पालणपुरमां लखाई छे तेवुं तेनी पुष्पिका परथी नक्की थाय छे.
प्रणम्य श्रीमदर्हन्त - मिष्टसिद्धिविधायकं ।
श्रेयः श्रियां मङ्गलस्य, वृत्तिं कुर्वे शिशूचिताम् ॥१॥
श्रेयः श्रियां मङ्गलकेलिस ! नरेन्द्रदेवेन्द्रनताङ्घ्रिपद्म ! । सर्वज्ञ ! सर्वातिशयप्रधान ! चिरं जय ज्ञानकलानिधान ! ॥ १ ॥
॥ श्रेय० ॥ व्याख्या ॥ हे ! 'नरेन्द्रदेवेन्द्रनताङ्घ्रिपद्म' ! नरेन्द्राश्चक्रवर्त्त्यादयो देवेन्द्राद्यमराद्यास्ते नते वन्दिते अङ्घ्रिपद्मे चरणकमले यस्य स तस्य सम्बोधनम् । नराणामिन्द्रा नरेन्द्रास्तत्पुरुषः । देवानामिन्द्रा देवेन्द्रास्तत्पुरुषः । नरेन्द्राश्च देवेन्द्राश्च नरेन्द्रदेवेन्द्रा द्वन्द्वः । ऽङ्घ्री एव पद्मे अङ्घ्रिपमे कर्मधारयः । नरेन्द्र-देवेन्द्रैर्नते नरेन्द्रदेवेन्द्रनते, नरेन्द्रदेवेन्द्रनते अङ्घ्रीपद्मे यस्य स नरेन्द्रदेवेन्द्रनताङ्घ्रिपद्मो बहुव्रीहिः । तस्य सम्बोधनं हे ! 'नरेन्द्र० !' हे ! 'सर्वज्ञ !' सर्वं जानातीति ‘सर्वज्ञः' तस्य सम्बोधनं हे 'सर्वज्ञ !'
हे ! ‘सर्वातिशयप्रधान !' सर्वे समस्ता अतिशया नीरोगदेहाद्यास्तैः प्रधान उत्कृष्टस्तस्य सम्बोधनं, सर्वे च अतिशयाश्च 'सर्वातिशया: ' कर्मधारयः । सर्वातिशयैः ‘प्रधान:' 'सर्वातिशयप्रधान' स्तपुरुषस्तस्य सम्बोधनम् ।