SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १०० अनुसन्धान-५८ कियत् [माहा] त्म्यं वर्ण्यते । [ई]दृशः पण्डितः [न] कुत्रापि।' ततो दक्षिणीयभट्टाचार्यो म(मा)नभ्रष्टस्त्वरितं स्वदेशाय चलितः । ततो भोजराजेन गङ्गातैली पृष्टः-को वादः कृतः ? ततस्तेनोक्तम्- भो राजन् ! स(म)म तेन भट्टेन एकाङ्गलिदर्शनेन ज्ञापितम् - 'त्वं काणोऽसि', मया अङ्गलिद्वयदर्शनेन ज्ञापितं - 'अहं त्वां द्वयोश्चक्षुषोः काणं करिष्यामि । ततो दक्षिणीयभट्टेन प्रलम्बहस्तदर्शनेन ज्ञापितम्- 'अहं त्वां चपेटया मारयिष्यामि' । ततो मया रोषं कृत्वा मुष्टिदर्शनेन ज्ञापितं – 'अहं त्वां मुष्टया घंकरणेन मारयिष्यामि ।' तदा राजादिका सर्वापि सभा सहर्षं हसति स्म। अहो ! अस्य दिनाः समीचीनाः, सुसिद्धिकोऽयम् । राज्ञा बहुसन्मानादिना सन्तोषितः स्वस्थानं गतः । सिद्धार्थो राजा वदति स्म-यूयमपि सुसिद्धिकास्तेन भवदुक्तं मम सत्यं भवत्विति । अथ (इति) गङ्गातैलीदृष्टान्तः सम्पूर्णः ॥ -x
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy