________________
डिसेम्बर २०११
भुजादण्डे धृत्वाऽत्यसितरुचिरोचिष्णुवपुषि द्विषद्भूमीपालद्विरदशिरसि क्ष्माप भवता । असौ मुक्ते मुक्ताफलमणिगणेऽपि प्रकटि धनुःकोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥८॥ ( समस्या ) श्यामाया आर्जव श्रीप्रथितकृशतनोः सत्कबन्धोपरिस्थं श्रोत्रध्राणोच्चतन्त्रद्वयविवरमधोर्ध्वप्रदेशस्थमीक्ष्य । स्फूर्जद्वर्णाद्यवालव्यतिकरमुदिताम्भोभरं स्नानकाले कूपाः सूच्यग्रतः षट् तदुपरि नगरं तत्र गङ्गाप्रवाहः १ ॥१॥
सूच्यग्रोच्चत्वधारिप्रवरसरलसद्वर्षभृत्षट्कनिम्नस्वच्छाम्भ:पूरपूर्णहूदविवरविवत्तिष्णुदेव्याश्रयेभ्यः । दृष्ट्वाविर्भूयमानं रुचिरसुरसरित्सिन्धुमुख्यापगाम्भः कूपाः सूच्यग्रतः षट् तदुपरि नगरं तत्र गङ्गाप्रवाहः ॥२॥ आयाता बहलाः सिताकरगृहा यत्र क्षणे मस्तके लोकानामृजुगात्रयष्ट्युपरितो रात्रौ तदूर्ध्वं पुनः । ज्योतिश्चक्रमवेक्ष्यते नगरवत् स्वर्गङ्गया शोभितं सूच्यग्रे किल कूपकाः षडभवन् गङ्गान्विता तत्र पूः ॥३॥
श्रीतीर्थङ्करपूजनोद्यतनरश्रेण्युच्चबाहुद्वयो
पात्तारात्रिककूपषट्कनिवसद्वह्निस्वधाभुक् ततः ।
दृष्ट्वा धूमपय:प्रवाहमसकृच्चेतोविकल्पोऽस्ति मे सूच्यग्रे किल कूपकाः षडभवन् गङ्गान्विता तत्र पूः ॥४॥ अङ्गुल्यग्रसुमुद्रिकास्थविवरान्त:स्थायिषट्कोणभृद्वज्रातर्गतलोकरूपविकसत्पानीयसम्भारतः ।
मन्यन्ते च तदा स्वबुद्धिविभवान्निर्मोत (?) वृन्दारका: सूच्यग्रे किल कूपकाः षडभवन् गङ्गान्विता तत्र पूः ॥५॥
१३
टि. १. “सूच्यग्रे कूपषट्कं तदुपरि नगरं तत्र वार्धिस्ततोऽद्रिः " आवा पदवाळी समस्या 'जिनस्तोत्रकोष' मां छपाई होवानुं याद छे. एमां आवी अन्य समस्याओ पण हती. -शी.