________________
ऑगस्ट २०११
एतावता आत्मनो द्रव्यार्थिकनयेन नित्यत्वम्, पर्यायाथिकनयेन चाऽनित्यत्वं निवेदितम् ॥३॥
देवश्रीवर्धमानक्रमकमलयुगाऽऽराधनैकाग्रचित्ता, या देवी दिव्यरूपा करतलविलसच्चक्रचापा विपापा । श्रीसर्वज्ञप्रणीतं सुकृतमनुपमं कुर्वतां प्राणभाजां,
विघ्नव्यूहं समन्ताद्दलयतु नितरामाशु सिद्धायिका सा ॥४॥ व्याख्या : सा सिद्धायिका-श्रीवीरशासनाधिष्ठात्री देवी, आशु-शीघ्रम्, नितरांअतिशयेन, समन्तात्-समन्ततः, प्राणभाजां-प्राणिनाम्, विघ्नव्यूह-अन्तरायसमवायम्, दलयतु-विभेदय-स्फेटयतु । दल(ए)मि(वि) भेदे (विदारणे) धातुपारायणं-९/१८४) । किं कुर्वता प्राणभाजाम् ? श्रीसर्वज्ञप्रणीतं-श्रीमदर्हदुक्तम्, अनुपमं-असदृशम्, सुकृतं-पुण्यं कुर्वताम् । यत्तदोनित्याभिसम्बन्धात् या देवश्रीवर्धमानक्रमकमलयुगाराधनैकाग्रचित्ता-श्रीवर्धमानक्रमकमलयुगस्यश्रीवीरचरणपद्मद्वन्द्वस्य, यदाराधनं-उपास्तिः, तत्रैकाग्रं-एकतानं चित्तं यस्याः सा। पुनः किंभूता ? दिव्यरूपा-दिव्यं-वल्गु, रूपं-आकारो यस्याः सा दिव्यरूपा, "दिव्य वल्गु लवङ्गयोः' [द्विस्वरकाण्ड. श्लो. ३५७] इत्यनेकार्थः। पुनः किंभूताः ? करतलविलसच्चक्रचापा-करतलयोः-पाण्योः, विलसन्तौशोभमानौ, चक्रचापौ-चक्रधनुषी यस्याः । तथा विपापा-पापरहिता ॥४॥
श्रीमत्यणहिल्लपत्तनपुरे व्यधायि स्तुता स्तुतिव्याख्या । श्रीजयसोमगुरूणां शिष्यैर्गुणविनयगणिभिरियम् ॥१॥
ठे. जैन धर्मशाला
पोलिस चोकी सामे, पो. तलाजा तीर्थ ३६४१४०