________________
१०८
अनुसन्धान-५६
शिश्ये। लिडादेशानां तिशितां 'लिङचे'ति [३/३/१५९] सूत्रेणाऽऽर्द्धधातुकत्वप्रतिपादनात् प्रत्युदाहरणम् ।
सिचीति ऊर्णोतेः इडादौ सिचि परस्मैपदे परे परतो विकल्पेन गुणो भवति । प्रौर्णवीत् । पक्षे वृद्धिः- प्रौर्णावीत् । 'विभाषोर्णोः' [१/२/३] इत्यङित्त्वपक्षे वृद्धिविकल्पोऽयम् । ङित्त्वपक्षे तु गुणवृद्ध्योरभावे तु उवङ् भवति- प्रौणुवीत् । अयं- पूर्वोक्तो गुणस्य विषयः - गोचरं, प्रोक्तः इति गम्यते, तुः पादपूर्तो ॥८॥
कटादिभ्योऽञ्णितः सर्वे, गाङश्चाऽपि ङितः स्मृताः । विज इड् विभाषोर्णोते-स्तथाऽपित् सार्वधातुकम् ॥९॥
व्याख्या : कुटादिभ्योऽञ्णितः सर्वे गाडश्चापि डित स्मृता इति । गुणप्रतिषेधविषये 'न क्ङिति क्वचनाऽपिही'त्युक्तम् । तत्रौपदेशिकस्य सुखाभिगम्यत्वादातिदेशिकं ङित्त्वं दर्शयन्नाह- कुट कौटिल्ये [पाणि. धा. १४५४] इत्यत आरभ्य यावत् कुङ् शब्दे [पाणि. धा. १४९३] एते कुटादयो गृह्यन्ते, तेभ्यस्तथा गाङः इति डकारस्याऽनन्यार्थत्वादिङादेशो गृह्यते, न गां गता [पाणि. धा. १०१६] इति धातुः, तस्माच्च मे(परे)ऽञ्णितो जिणि-तद्व्यतिरिक्ताः सर्वे समस्ताः प्रत्यया डितः स्मृता इति डिद्वद् भवन्तीत्यर्थः । कथं पुनरन्तरेण वतिवत्यर्थो गम्यते ? उच्यते- अन्तरेणाऽपि वर्ति- वत्यर्थो गम्यते । यथा- सिंहो माणवकः, यथा वा अब्रह्मदत्तं ब्रह्मदत्त इत्याह (इत्युक्ते) ब्रह्मदत्तवदयं भवतीति प्रतीयते, एवमिहाऽपि अङितं डिदित्याह, द्विद्भवतीति गम्यते । कुटादिभ्यःकुटिता, कुटितुं, कुटितव्यम् । गाङ्- अध्यगीष्ट, अध्यगीषातां, अध्यगीषत् । अणित इति किं ? उत्कोटयति, उत्कोटकः, उत्कोटो वर्त्तते । व्यचेः कुटादित्वमनसीति वक्तव्यं वा०]- विचिता; विचितुं, विचितव्यम् । अनसीति किं ? उरुव्यचाः ।
विज इडिति । ओविजी भयचलनयोरस्मात् पर इडादिप्रत्ययो डिद् भवति ।३ उद्विजिता, उद्विजितुं, उद्विजितव्यम् । इडिति किं ? उद्वेजनीयम् ।
विभाषोर्णोतेरिति । इडित्यनुवर्तते। ऊर्गुञ् आच्छादने [पाणि. धा. १. ऊर्णोतेर्विभाषा - ७/२/६
२. गाङ्कुटादिभ्योऽणिन्डित् - १/२/१ ३. विज इट - १/२/२