________________
मई २०११
४७
नार्यः कदाचन मनाग् मनसः स्वकीया
नैसर्गिकी कुटिलतां न परित्यजन्ति । ज्ञात्वेति तत्र न भवन्ति हि सक्तचित्ताः सत्पूरुषा य(ह्य)गडदत्तमुखा यथेह ॥६८॥ संत्यक्ताऽवनिजानिनाऽतिगहनेऽरणे गता दुर्दशां संछिन्नं पुनरेव हस्तयुगलं प्राप्सीन्नवं पेशलम् । भेजे भूरिसुखानि सर्वजगति ख्याता कलावत्यहो शीलस्याऽतिशयेन विस्मयकरं किं किं न सम्भाव्यते ? ॥६९।।
अथ ब्रह्मव्रताराधकेतरोदाहृतयः । तत्र तेषां(केषां)चिदभव्यानामपि स्वीकृत-सर्वविरतीनामपि व्रतखण्डना जायते सा तदधिकारे प्रोच्यते
पूर्वं यो नियमस्थितिं गुरुसकाशादग्रहीद् दुष्कलां निर्वेदात् कुशलत्वमाप सकलस्याऽर्हत्क्रियौघस्य च । सोऽपि ह्यार्द्रकुमारको व्रतविधि हित्वा चतुर्विंशतिं वर्षाणां गृहसौख्यभाक् पुनरभूद् धिक् पुष्पचापोद्गतिम् ॥७०॥ श्रीशैवेयजिनस्य बन्धुरपि यः स्वीकृत्य जैनं व्रतं दर्यां रैवतभूधरस्य विशदध्यानं प्रपन्नः परः(रम्) । सोऽपीक्ष्याऽऽवरणप्रमुक्ततनुकां राजीमती रागवानासाश्त (?)त्र तु चेत्तदा खलु भवेदन्यस्य का सङ्कथा ? ॥७॥ यः शिष्योऽन्तिमतीर्थपस्य नृपतिश्रीश्रेणिकस्याऽऽत्मभूरप्यत्युग्रतपोनिधिर्बहुतमव्याख्यानलब्ध्या सदा । जन्तून् बोधयति स्म यो दश दश श्रीनन्दिषेणो मनिः सोऽप्यासीत् पणयोषिता सह रतो धिक् कामविस्फूर्जितम् ॥७२॥ सम्पर्कं स्वगुरोविमुच्य तटिनीतीरे तपोभिर्घनैः पार्श्वस्थांस्त्रिदशांश्चकार वशगान् यो वै सहेलं वशी । सोऽपि प्रालभताऽत्र निन्द्यनरकं सङ्गेन वारस्त्रिया संत्यक्तव्रतसंस्थितिवृजिनवान् द्राक् कूलवालो यतिः ॥७३॥ विद्यन्ते नहि किं सुपर्ववनितास्तारुण्यराढाञ्चिता लेखानामधिपोऽपि गौतमऋषेर्भेजे सि(?) यत् प्रेयसीम् ।