SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ मई २०११ त्वमसि नाथ ! भवार्णवनाविक-स्त्वमसि सौख्यकदम्बककारकः । त्वमसि सिद्धिवधूस्तननायक-स्त्वमसि सप्तनयार्थविचक्षणः ॥७॥ त्वमसि दुःखनिवारणतत्पर-स्त्वमसि मुक्तिवशारतिहषितः । त्वमसि भव्यकुशेशयभास्कर-स्त्वमसि देवनराधिपसेवितः ॥८॥ त्वमसि मोहमतङ्गजकेशरी त्वमसि नाथ ! जगज्जनवत्सलः । त्वमसि दुःकृतमन्मथशङ्कर-स्त्वमसि कोपशिलोच्चयमुद्गरः ॥९॥ भृत्योऽस्मि तव दासोऽहं विनयी तेऽस्मि किङ्करः । नाथ ! त्वच्चरणाधारो लभे शं भवदाश्रितः ॥१०॥ जयन्तु ते श्रीगुरुधर्ममूर्तयो गणाधिराजा मुनिसङ्घपालकाः । अनेकवादीश्वरवादसिन्धुरा-भिमानपञ्चास्यनिभाः क्रियापराः ॥११॥ श्रीधर्ममूर्तिसूरीशाः सूरिश्रेणिवतंसकाः । कल्याणवपुषो नूनं चिरं नन्दन्तु सत्तमाः ॥१२॥ तदंहिकजरोलम्बः शिष्यः कल्याणसागरः । चकार पार्श्वनाथस्य नामावलीमभीष्टदाम् ॥१३॥ पुण्यरूपमिदं स्तोत्रं नित्यमध्येति भाक्तिकः । तस्य धाम्नि महालक्ष्मी-रेधते सौख्यदायका ॥१४॥ इति श्रीपार्श्वनाथनामान्यष्टोत्तरसहस्रमितानि समाप्तान्यजनिषत ॥ श्रीविधिपक्षगच्छाधिराज श्रीधर्ममूर्तिसूरीश्वरपत्कजभ्रमरायमानेन श्रीकल्याणसागरसूरिणा श्रीपार्श्वनाथनामानि श्रीमन्मार्तण्डपुरे कृतानि लिखितानि च ॥ निजकर्मक्षयार्थम् ॥ कौशीद्यं विहाय च सम्पूर्णानि पाठितानीति ॥छ।
SR No.520556
Book TitleAnusandhan 2011 06 SrNo 55
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages158
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy