SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ मई २०११ तव स्तोत्रेण कुर्वे स्वां जिह्वां दोषशताकुलाम् । पूतामिदं भवारण्ये जन्तूनां जन्मनः फलम् ॥८॥ वरदाय नमस्तुभ्यं नमः क्षीणाष्टकर्मणे । सारदाय नमस्तुभ्यं नमोऽभीष्टार्थदायिने ॥९॥ शङ्कराय नमस्तुभ्यं नमो यथार्थदर्शिने । विपद्धत्रे नमस्तुभ्यं नमो विश्वार्त्तिहारिणे ॥१०॥ धर्ममूर्ते नमस्तुभ्यं जगदानन्ददायिने ।। जगद्भत्रे नमस्तेऽपि नमः सकलदर्शिने ॥११॥ सर्वज्ञाय नमस्तुभ्यं नमो बन्धुरतेजसे ।। श्रीकराय नमस्तुभ्य-मनन्तज्ञानिने नमः ॥१२॥ नाथ ! त्वच्चरणाम्भोजसेवारसिकतत्पराः । विलसन्ति श्रियं भव्याः सदोदया महीतले ॥१३॥ इन्द्रा अपि गुणान् वक्तुं पारं यस्य ययुर्नहि । असंख्येयाननल्पांश्च, क्षमस्तहि कथं नरः ? ॥१४॥ तथापि ज्ञानमुग्धोऽहं भक्तिप्रेरितमानसः । नाम्नामष्टसहस्रेण त्वां स्तुवे सौख्यदायकम् ॥१५॥ इति श्रीपार्श्वनाथनामावल्यां स्तुतिप्रस्तावना ॥ अर्हन् क्षमाधरः स्वामी क्षान्तिमान् शान्तिरक्षकः । अरिञ्जयः क्षमाधारः शुभंयुरचलस्थितिः ॥१॥ लाभकर्ता भयत्राता च्छद्मापेतो जिनोत्तमः । लक्ष्मणो निश्चलोऽजन्मा देवेन्द्रो देवसेवितः ॥२॥ धर्मनाथो मनोज्ञाङ्गो धर्मिष्टो धर्मदेशकः । धर्मराजः परातज्ञो धर्मज्ञो धर्मतीर्थकृत् ॥३॥ सद्धैर्याल्पितहंसाद्रि-स्तत्रभवान् नरोत्तमः । धार्मिको धर्मधौरेयो धृतिमान् धर्मनायकः ॥४॥ धर्मपालः क्षमासद्मा(द्म) धर्मसारथिरीश्वरः ।। धर्माध्यक्षो नराधीशो धर्मात्मा धर्मदायकः ॥५॥
SR No.520556
Book TitleAnusandhan 2011 06 SrNo 55
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages158
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy