SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०११ सस्नेहं साञ्जसं योग्यं प्रीतिपोत्कार एव च । अभिवन्दे शिलामं च नमोऽस्तु नियोजयेत् ॥१३॥ नारायणायुर्दीर्घायु-ब्रह्मायुर्धर्मलाभकः । धर्मवृद्धिस्तथाऽखण्ड-प्रतापादि नियोजयेत् ॥१४॥ अक्षयाऽजरामरताऽविधवाऽथ सुतवत्यपि । शुभराज्यं च भरित-पूरितं कुशलोदयं ॥१५॥ शिवायुरेवमादीना-माशीर्वादपुरःसरम् ।। येषां यस्ते न देया (?) प्रयुज्यन्ते ततः क्रिया ॥१६।। लेखयोग्या प्रकाश्यन्ते क्रिया पश्चात् प्रयुज्यते । निर्मंत्रय त्यक्त्वा मंत्रेय ते च कथयत्यति ॥१७॥ (?) लेखरत्नाकरादस्माद् भावरत्नानि उद्धरेत् । गृहीत्वा रचयेल्लेख-हारानवद्यवजितान् ॥१८॥ एकपट्टे स्वस्तिहीने रजोहीने द्विगुण्ठिते । त्रिभिः कारंखकैर्लेखैः नास्ति सिद्धिं (द्धिः) करार्पिते ॥१९॥ गुरोर्वचनमाश्रित्य धीमतां स्मृतिहेतवे । अज्ञानबोधनार्थाय वक्ष्येऽहं लेखपद्धतिम् ॥२०॥ चतुःसागरपर्यन्ते समस्ते क्षितिमण्डले । नास्ति देशो विना राजा लेखकं च विना नृपम् ॥२१॥ प्रज्ञाहीनाश्च ये मूढा अदक्षा लेखकर्मणि । तेषामेवोपदेशार्थं पञ्चाशद्विधयः कृताः ॥२२॥ व्यापारा बहवश्चार्था राजमूले व्यवस्थिताः । लेखकैस्तु विचार्यन्ते स्वामिचित्तानुवृत्ति(वर्ति)भिः ॥२३॥ इति लेख रत्नाकर पद्धतिः ॥ लेखनी सर्वकार्येषु व्यापारेषु सदामुखी । नवपर्वसमायुक्ता अधिकस्याधिकं फलम् ॥१॥ सन्मुखी हरते प्राणा-नधोमुखी धनक्षयः । वामा च हरते आयुः दक्षिणा सुखसम्पदः ॥२॥ ४. ०मादाय प्रतौ पाठां. टि. । ५. मतिमाश्रित्य धीमताम् प्रतौ पाठां. टि. । ६. भूप प्रतौ पाठां. टि. ।
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy