SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११६ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ भवे भ्रमन्तः कटुकण्टकाकुले, दुःपापसन्तापहरामभीष्टदाम् । महत्तरामाप्य जना वदन्त्यहो !, विलोकिता कल्पलता करीरके ! ॥१३।। [समस्याद्वयम्] १. करीरतुल्यो भवः, कल्पलतातुल्या महत्तरा । श्रीशुभसौख्यभृता', नरसत्तमसिंहसुतारे, णंदउ सा सययं, जणदंसिदधम्मपधा ।' वालियमालविया - लभला' ततनातवरा, मंकलवालकरा, नदलोगविसोगहरा ॥१४॥ [अष्टभाषामयम्] १. श्रीः-लक्ष्मीः, शुभं-पुण्यं, सौख्यं-सुखं, तै ता । २. नरेषु सत्तमसिंहः स्वपिता, तस्य सुता, एषा समसंस्कृता । ३. नं(ण)द०...., एषा प्राकृता । ४. जनानां दर्षि(शि) तो धर्मपथो यया, एषा सौ(शौ)रसेनी । तो दोऽनादौ सौ(शौ)रसेन्यामयुक्तस्य[सि.८/४/२६०] अनेन सौ(शौ)रसेन्यां तस्य दः । 'थो धः' [सि.८/४/२६७] अनेन थस्य धः । ५. वारितो मारस्य-कन्दर्पस्य विकारभरो यया । 'रसोर्लशो' [सि.८/४/२८८] अनेन रस्य लः, एषा मागधी । ६. ततः-विस्तीर्णो नादः शब्दः, तेन वरा । 'तदोस्तः' [सि.८/४/३०७] अनेन तस्य दस्य च तः, एषा पैशाची । ७. मङ्गलस्य वारं-समूहं करोतीति । 'तृतीयतुर्ययोराद्यद्वितीयौ' [सि.८/४/३२५] अनेन तृतीयस्य गस्य स्थाने आद्यः कः स्यात् । 'रस्य लो वा' [सि.८/४/३२६] अनेन विकल्पेन रस्य लः, एषा चूलिकापैशाची । ८. नतानां लोकानां विरु(?)शोकं हरतीति । 'स्वरादसंयुक्तानां कखतथप-फां गघर(द)धबभाः' [सि.८/४/३९६] अनेन तस्य दः, कस्य गः । एषा अपभ्रंश भाषा । आसां भाषाणां निश्च(श्चि)तिः प्राक्तनवृत्तौ ज्ञेया । यतिनामछन्दसा काव्यम् : एवं श्रीगुरुरत्नसिंहमुनिपात्, प्राप्तप्रतिष्ठापदा, सौभाग्योदयवल्लभा कृतशुभा, ज्ञानादिरत्नाकरः ।
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy