SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ८ अनुसन्धान ५२ सम्पूर्ण || जगदीश्वर ! त्रयाणां जगतां समाहारस्त्रिजगत् । त्रिजगत ईश्वरस्त्रिजगदीश्वरस्तस्य सम्बोधनं हे त्रिजगदीश्वर !। ये तव गुणास्त्रिभुवनं लङ्घयन्ति । गुणाः किंविशिष्टाः ?, सम्पूर्ण (मण्डलशशाङ्क-कलाकलापशुभ्राः) । सम्पूर्णं मण्डलं यस्य सम्पूर्णमण्डलः । शशे ( शो ) ऽङ्के यस्य स शशाङ्कः । सम्पूर्णमण्डलश्चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कः । कलानां कलापः कलाकलाप:। सम्पू(र्णमण्डल)शशाङ्कस्य कलाकलापः सम्पूर्णमण्डलशशाङ्ककलाकलापः । [सम्पूर्णमण्डलशशाङ्ककलाकलाप]वत् शुभ्राः सम्पूर्ण(मण्डलशशाङ्ककलाकलाप) शुभ्राः । ये गुणा एकं नाथं संश्रिताः, कः पुरुषः यथेष्टं सञ्चरतस्तान् गुणान् निवारयति इत्यन्वयः । इष्टस्याऽनतिक्रमेण यथेष्टम् ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि नतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दराद्रिशिखरं चलितं कदाचित् ? ॥१५॥ चित्रं कि० ॥ हे नाथ ! यदि ते- तव मनः मनागपि त्रिदशाङ्गनाभिर्विकारमार्गं न नीतं इत्यन्वयः । त्रिदशानां अङ्गनाः त्रिदशाङ्गनाः, ताभिः त्रि(दशाङ्गना)भिः । विकारस्य मार्गो विकारमार्गस्तम् । अत्र किं चित्रं अस्ति ? । न किमपीत्यर्थः । दृष्टान्तमाह- कदाचित् कल्पान्तकालमरुता किं मन्दराद्रिशिखरं चलितम् ? । कल्पान्तकालमरुता कथम्भूतेन ?, चलिताचलेन । चलिता अचला येन स च (लिताच ) लस्तेन । कल्पस्य अन्तलपत (अन्तः कल्पान्तः) । कल्पान्तश्चासौ कालश्च क ( ल्पान्तका) लः । कल्पान्तकालस्य मरुत् क(ल्पान्तकालमरु)त् । तेन क (ल्पान्तकालमरु) ता । मन्दरश्चासौ अद्रिश्च मन्दराद्रिः । मन्दराद्रेः शिखरं मन्दराद्रिशिखरम् ॥१५॥ निर्धूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ निर्धूम० ॥ हे नाथ ! त्वं अपरं दीपः असि । यत: - किंविशिष्टः ? निर्धूमवर्तिः । धूमश्च वर्त्तिश्च धूमवर्ती, निर्गते धूमवर्ती यस्मात् असौ
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy