SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २०१० प्रभाणाम्। पुन: किंलक्षणं जिनपादयुगम् ? । दलितपापतमोवितानम् । तमसो वितानं तमोवितानम्, पापमेव तमोवितानं पा० (पापतमोविता) नम्, दलितं पापतमोवितानं येन तत् द० (दलितपापतमोविता) नम् ॥२॥ बुद्ध्या विनापि विबुधार्चितपादपीठ ! स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब - मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥३॥ ३ बुद्धया० ॥ हे विबुधार्चितपादपीठ ! पादयोः पीठं पादपीठम्, विबुधैः अर्चितं वि०(विबुधाचि) तम्, विबुधार्चितं पादपीठं यस्य स वि (विबुधार्चितपादपीठ)स्तस्य सं ( सम्बोधनम् ) । अहं विगतत्रपोऽस्मि । विगता त्रपा यस्मात् । पुनः कीदृशोऽहं ?, समुद्यतमतिः । समुद्यता मतिर्यस्य [स] समु (द्यतम) ति: । उद्यतबुद्धिरित्यर्थः । किं कर्तुं ?, स्तोतुम् । कथं ?, विना । कया ?, बुद्ध्या । दृष्टान्तो ऽत्र - कोऽन्यो जनः सहसा इन्दुबिम्बं ग्रहीतुं इच्छेत् ? । इन्दोर्बिम्बं इन्दुबिम्बं तत् । कथं ?, सहसा । इन्दुबिम्बं किम्भूतम् ?, जलसंस्थितम् । जले संस्थितं ज (लसंस्थि) तं, तत् । किं कृत्वा ?, विहाय त्यक्त्वा । कं कर्मतापन्नम् ?, बालम् । अज्ञशिशुमित्यर्थः ॥३॥ वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान् कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । कल्पान्तकालपवनोद्धतनक्रचक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ वक्तुं ॥ हे गुणसमुद्र ! गुणानां समुद्रो गुणसमुद्र:, तस्य सं (सम्बोधने) । ते-तव गुणान् वक्तुं कः क्षमोऽस्ति ?, अपि तु न कोऽपि । गुणान् कथम्भूतान् ?, शशाङ्ककान्तान् । शशाङ्कवत् कान्ता: श (शाङ्कका) न्तास्तान् । कः कीदृशोऽपि ?, सुरगुरुप्रतिमोऽपि । बृहस्पतितुल्योऽपि । सुराणां गुरुः सुरगुरुः, सुरगुरोः प्रतिमः सुरगुरुप्रतिमः । कथं अपि कया ?, बुद्ध्या । दृष्टान्तमाह- को वा अम्बुनिधि भुजाभ्यां तरीतुं अलं समर्थो भवेत् ? । न कश्चिदपि । कीदृशं अम्बुनिधिम् ?, कल्पान्तकालपवनोद्धतनक्रचक्रम् । कल्पान्तकालवायुना उद्धतानि - ऊर्ध्वं चलितानि नक्रचक्राणि- यादोवु (वृन्दानि यत्रेत्यर्थः । कल्पस्य अन्तः कल्पान्तः, कल्पान्तश्चासौ कालश्च कल्पान्तकालः । कल्पान्तकालस्य पवनः क ( ल्पान्तकालपव)
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy