SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर-२००९ तहा गुणविहीणो जो माणवो भुवणे न सो । पावइ धम्मरयणं गुणाकिण्णो उ पावई ॥५२।। निसम्मेवं सुदिटुंतं सद्धम्मरयणे जइ ।। इच्छा हवेज्ज तो निच्चं करेह गुणअज्जणं ॥५३।। संस्कृतच्छाया : असारे अत्र संसारे, दुर्लभं मनुजत्वम् । दुर्लभस्तत्र धर्मोऽपि, जिनकुञ्जरदेशितः ॥१॥ चिन्तामणिर्यथा नैव, सुलभस्तुच्छप्राणिनः । तथा गुणविहीनस्य, धर्मः अस्ति खु(खलु) दुर्लभः ॥२॥ धर्माद् राज्यं सदा भवति, विपुलं बलसंयुतम् । धर्माद् बलदेवश्च, धर्माच्चैव (धर्मात् तु) नरेश्वरः ॥३॥ धर्मात् चक्रवर्ती च, धर्माद् बलवान् जनः । धर्माद् देवस्तथा भवति, विपुलर्द्धियुतः श्रुतः ॥४॥ धर्माद् भवति देवेन्द्रः, धर्माद् देवेन्द्रवन्दितः । धर्मादायुस्तथा दीर्घ, धर्माद् भवति मुनीश्वरः ॥५॥ धर्मात् तीर्थकरो भवति, धर्माच्च गणेश्वरः ।। धर्माद् भवति सौख्यं, धर्माच्च प्रवर्तकः ।।६।। धर्माद् भवति स्थविरः, धर्मान्मोक्षं गता जनाः । धर्मात् सर्वार्थसंपत्तिः, नाऽस्ति धर्माद् विना सुखम् ।।७।। पशुपालस्य दृष्टान्तः, उच्यते समयानुगः । भावयितव्यः प्रयत्नेन, बधैः सर्वदा वरः ।।८।। विबुधजनसमेतं सर्वथा शोभनीयं प्रवरहरिसुरक्षं सर्वदा सर्वदक्षम् । .. हरिपुरमिव श्रेष्ठं पुण्यतः संगरिष्ठं इह विजयसमर्थं हस्तिनापुरमस्ति ।।९।। तत्र श्रेष्ठी गरिष्ठोऽस्ति, नागदेवाभिधानतः । शुद्धशीलधरा तस्य गेहिनी तु वसुन्धरा ||१०|| तत्तनयो विनयोद्योतो मति-धृतिविराजितः । नाम्ना जयदेवोऽस्ति सर्वविज्ञानशोभितः ॥११।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy