________________
डिसेम्बर २००९
सेवा देया यादेवासे नेमे देवं वन्देऽमेने त्वामस्त्रिं नानारिं मत्वा सारांगातोतो गारांसाम् ॥९॥
आज्ञाज्ञातश्च दाराप्तो मण्डने ज्ञोस्य मूलतः । आज्ञाज्ञातश्च दाराप्तो मण्डनेऽज्ञोस्य मूलतः ॥१०॥
इति श्री भवनभूषणे भूषणभवने पञ्चमाष्टकम् ।
६ । अथ पूर्वर्णनम् ।
पूरत्तादृत एव वेत्ति न परश्चार्यागतिं सुन्दराम् मात्रामत्रमनन्तसिद्धिफलदं दूराय नांहीयुतम् । चार्यागत्युचितादशेषरहिता निश्शेषमौलिस्थितात् पात्रापात्रविशेषचेतिति परापूर्वप्रणीतात्स्फुटम् ||२|| शा० ||
पू: पूर्वेव परा परापदहतिप्राणिव्रजे सद्दया सूर्याद्या सुरमण्डलीस्वरुचिराचारर्षिका कर्षिका । नित्योदारविभाजनाहतभया भव्यावलीमण्डिता
भातीह प्रबला बला बलवती श्रीनाथनेमीशतः || ३|| शा० ॥
प्रसरशिशिरभावा माधव श्रीस्वभावा
स्वपतिमिलनतापा द्रव्यवर्षाप्रतापा ।
सुहृदुदयसरिद्भा जन्मवेलैकसद्भा
सघनभवनधन्या भाति पूराजकन्या ||५|| मालिनी ॥
श्रीतोया दवदग्धिकासुगुणगुः प्राकारसीमाभया नानानारदवर्त्तिकाऽर्जुनकथा वा कोपलक्ष्याक्षया । तापी पाति परीक्षिता हयगजा श्री औजयंती ह्यतः सूर्याघा नगरी विभाति सततं श्रीद्वारकेव स्फुटम् ||४|| शा० ॥
उच्चाधोगुणनां कुतूब ( ह ? ) लसरत्प्राणेह सोस्नेहदां भूयो लोकविवाससो लघुसृतिप्रक्षीणराजत्कटीम् । नाभीकूपसुरोमवल्लिपलिदां तत्स्तूपनृत्यत्कुचां रम्यास्यामयमाप पापरहितां नारीमिवैव क्षमाम् ||६|| शा०
Jain Education International
विद्युन्माला |
For Private & Personal Use Only
४७
अनुष्टुप् ।
www.jainelibrary.org