SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३६ अनुसन्धान-५० च्युतजीविताशा: ।।४१॥ आपादकण्ठमिति ॥ हे स्वामिन् ! त्वन्नाममन्त्रं अनिशं-निरन्तरं स्मरन्त: मनुजा: सत्रः स्वयं विगतबन्धभया भवन्ति । विगतं बन्धभयं येषां ते विगतबन्धभयाः । कथम्भूता मनुजाः ? आपादकण्ठमुरुशृङ्खलानि तैर्वेष्टितानि अङ्गानि येषां ते उरुशृङ्खलवे० । पुनः कथम्भूता: मनुजा: ? गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । गाढं दृढं वृहन्ति च तानि निगडानि च वृहन्निगडानि तेषां कोटिभिरग्रभागे निघृष्टा जङ्घा येषां ते बृहन्निगडकोटिनिघृष्टजङ्घाः । विशाल अष्टीलाप्रच्चरितजङ्घाः ।।४२।। मत्तद्विपेन्द्र इति ।। हे स्वामिन् ! य: मतिमान्-पण्डितः इमं तावकं स्तवं अधीते, तस्य मनुष्यस्य भिया प्रयाति । कथम्भूतं भयम् ? मत्तद्विपेन्द्रमृगराजदवानलाहिसग्रामवारिधिमहोदरबन्धनोत्थं । मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महोदरश्च बन्धनं च मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनानि तेभ्यः उत्थं-प्रकटितं मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधि-महोदरबन्धनोत्थम् ॥४३।। स्तोत्रस्त्रजमिति ।। हे जिनेन्द्र ! जिनानां सामान्यकेवलिनां इन्द्रः = जिनेन्द्रः तत्सम्बोधनं क्रियते हे जिनेन्द्र ! । य: मनुष्यः इह तव स्तोत्रस्रजं = स्तोत्रमालां कण्ठगतां सती अस्रजं(अजस्त्रं)-निरन्तरं धत्ते । तं मानवं लक्ष्मीः समुपैति-समागच्छति । कथम्भूतं तं ? मानतुझं मानेन तुझं मानतुङ्गम् । कथम्भूता लक्ष्मी: ? अवशा-निश्चला । कथम्भूतां स्तोत्रस्रजं ? गुणैः मया भक्त्या निबद्धां-रचितामित्यर्थः । पुनः कथम्भूतां स्तोत्रस्रजं ? रुचिरवर्णविचित्रपुष्पां रुचिराश्च ते वर्णाश्च रुचिरवर्णास्ते एव विचित्राणि पुष्पाणि यस्यां सा रुचिरवर्णविचित्रपुष्पा तां रुचिरवर्णविचित्रपुष्पां, मनोहराक्षरकुसुमामित्यर्थः ।।४४|| इति श्री भक्तामरकाव्यस्य सुखबोधिका वृत्तिः समाप्ताः ।। -X Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy