________________
३२
अनुसन्धान-५०
समस्तैर्गुणैः, त्वं निरवकाशतया - नैरन्तर्येण संश्रितः, दोपैः स्वप्नान्तरेपि कदाचित् ऽपि न ईक्षितः-विलोकितः ऽसि, अत्र को विस्मयः ? - किमाश्चर्यम् ? । कथम्भूतैः दोषैः ? उपात्तविवुधाश्रयजातगर्वैः । उपात्तः - अङ्गीकृतो यो विबुधानां अन्यदेवानां आश्रयः उपात्तविबुधाश्रयस्तेन जातगर्वो येषां ते उपात्तविबुधाश्रय- जातगर्वास्तैः । अथवा उपात्तो यो विविधाश्रयो नानाप्रकार आश्रय उपात्तविविधाश्रय स्तेन जातः गर्वो येषां ते उपात्तविविधाश्रयजातगर्वास्ते । कोऽर्थः ? यदा हि त्वं सम्पूर्णैर्गुणैः कृत्वा निरन्तरत्वेन आश्रितः तदा दोषाणां रच्यतं वशीरे ( तव शरीरे) स्थानाभावात् दोषैर्विचारितं " अत्र चेदस्माकं स्थानं नास्ति, तदस्माकं अपरदेवानां शरीरं वर्त्तते" इति विचार्य दोषा अपरदेवेषु स्थित्वा गर्वं चक्रुरित्यर्थः ॥ २७॥
उच्चैरिति ॥ हे स्वामिन् ! उच्चैः अशोकतरुसंश्रितम् । उन्नताशोकवृक्ष समीपाश्रितं भवतो रूपं नितान्तं - अत्यन्तं विभाति । कथम्भूतं रूपं ? उन्मयूखम् ।
उद्गतकिरणम् । उत्प्रेक्षते - भवतो रूपं किमिव ? पयोधरपार्श्ववर्त्ति - मेघसमीपस्थितं रवेः-सूर्यस्य बिम्बमिव । कथम्भूतं बिम्बं ? रवेर्बिम्बस्य स्पष्टोल्लसत्किरणं स्पष्टाः-प्रकटाः, उल्लसन्तः किरणा यस्य तत् । पुनः कथम्भूतं ? अस्ततमोवितानम् । अस्तं तमोवितानं येन तत् अस्ततमोवितानम् ॥२८॥
सिंहेति ॥ हे स्वामिन् ! तव वपुः सिंहासने विभ्राजते - शोभते इत्यर्थ: । कथम्भूते सिंहासणि(ने)मणिमयूखशिखाविचित्रे । मणिकिरणसूचीभिः रमणीये । किंविशिष्टं वपुः ? कनकावदातम् । स्वर्णवद् गौरं । इव इति उत्प्रेक्ष्यते, कस्मिन्, कं इव ? तुङ्गोदयाद्रिशिरसि सहस्ररश्मेः । सूर्यस्य बिम्बं इव । तुङ्गं च तत् उदयाद्रेः शिरश्च तुङ्गोदयाद्रिशिरस्तस्मिन् । कथम्भूतं ? सहस्त्ररश्मे: वियति - आकाशे विलसत् - अंशुलतावितानं यस्य तत् ॥२९॥
कुन्दावदेति ॥ तव वपुः विभ्राजते - शोभते । कथम्भूतं वपुः ? कुन्दावदातचलचामरचारुशोभं, कुन्दवत् अवदाते चले चामरे, ताभ्यां चारु प्रधाना शोभा यस्य तत् । कथम्भूतं वपुः ? कलधौतकान्तं । कलधौतवत् कान्तं कलधौतकान्तम् वपुः । कमिव ? सुरगिरेः उच्चैस्तटमिव । कथम्भूतं तटम् ? शातकौम्भं । पुनः कथम्भूतं तटं ? उद्यच्छशाङ्कशुचिनिर्झरवारिधारं । उद्यत् चासौ शशाङ्कश्च उद्यच्छशाङ्कः तद्वत् शुचयो निर्मला वारिधारा यस्य तत् ||३०|| छत्रेति ॥ उच्चैःस्थितं तव छत्रत्रयं विभाति शोभते । कथम्भूतं छत्रं ?
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org