SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५० मन्दरादिशिखरं-मेरुशृङ्गं चलितम् ? नैव कम्पितम् । केन ? कल्पान्तकालमरुतायुगक्षयसमयवायुना । कीदृशेन ? चलिताचलेन-कम्पितापरगिरिणा । यादृशं मेरुशृङ्गं तादृशं भगवन्मनः ॥१५॥ प्रकास(श)कत्वादपूर्वदीपत्वं भगवतो वर्णयितुमाहनिर्दूमवर्त्तिरपवर्जिततैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताच ला]नां दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ हे नाथ ! स्वामिन् ! दीपः-प्रदीपः अपरो-ऽन्योऽपूर्वो असि-भवसि त्वम् । कीदृशः ? जगत्प्रकाश:-त्रिभुवनोद्योतकः । दीपो हि गृहैकदेशे प्रकाशको भवति । यतो न गम्यो-न पराभवनीयः । केषाम् ? मरुतां-वायूनाम् । कीदृशानाम् ? चलिताचलानां-कम्पितगिरीणाम् । कथम् ? जातु-कदाचिद् यथा । प्रकटीकरोषिप्रकाशा(श) यसि । किं तत् ? इदं-प्रत्यक्षं जगत्त्रयं-भुवनत्रितयम् । किम्भूतम् ? कृत्स्नं-सर्वम् । कीड[श]स्त्वं दीप: ? निर्दूमवर्त्तिः-निर्गतौ धूम-वर्ती यस्य स तथोक्तः ॥१६॥ सूर्यादपि अधिकत्वं दर्शयितुमाहनाऽस्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ हे मुनीन्द्र ! - गणधरादिसाधुनाथ ! असि-भवसि त्वम् । कीदृशः ? सूर्यातिशायिमहिमा-सूर्यातिशायी-सूरतिरस्कारी महिमा-महत्त्वं यस्य स तथोक्तः । यतो नास्तं-[न] तिरोध(धा)नत्वं कदाचिदुपयासि-उपगच्छसि । सूरो हि सन्ध्यासमये छन्नो भवति, त्वं पुनः सदा प्रकास(श)रूपः । तथा त्वं न राहुगम्य:-तमपराभवनीयो न भवति(सि) । रविश्च ग्रहणकाले तमसा पराभूयते । तथा त्वं सहसा-सन्ततं युगपद्- एककालं जगन्ति-त्रीणि भवनानि अधोमध्यमोर्ध्वरूपाणि स्पष्टीकरोषि-प्रकाशयसि । रविः पुनर्भुवनैकदेशं क्रमेण सततं प्रकाशयति । तथा त्वं नाम्भोधरोदरनिरुद्धमहाप्रभाव:-अम्भोधरामेघास्तेषामुदरं-कुक्षिः, तेन तस्मिन् वा निरुद्धो-ऽपनीतो महान्-बृहत् प्रभाव: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy