________________
१०२
अनुसन्धान ४९
पावापुरीमध्यगतं मनोज्ञं, विमानरूपं चरमेशचैत्यम् ।। द्वितीयकं वारिगतं च सम्यग् निरीक्ष्य नत्वा च मुदा भृतोऽस्मि ॥१९|| चैत्यं वडग्रामगतं प्रणम्य, मनोरमे क्षत्रियकुण्डघाटे । गिरौ च चन्द्रप्रभ-वीरमुख्यान्, चैत्येषु भक्त्या नतवानहं तान् ॥२०॥ काकन्दिकायां च पुरे विहारे, जिनेन्द्रचैत्यानि मयाऽभिवन्द्य । ग्रामेऽभिरामे फतू(तु)आभिधाने, नमस्कृता कुन्थुजिनेन्द्रमूर्तिः ॥२१॥ श्रीपत्तने पाटलिपुत्रनाम्नि, विशालनाथप्रभृतीन् जिनेन्द्रान् । सुदर्शनं श्रेष्ठिमुनि च सिद्ध-मनंसिषं शुद्धगुणाप्तिहेतोः ॥२२॥ वैताढ्यशृङ्गादितानि भास्व-ज्जिनेन्द्रचैत्यानि च शाश्वतानि । अष्टापदे चाऽऽर्षभिकारितानि, समस्म्यहं तानपि नन्तुकामः ॥२३|| एतानीन्द्रवज्रोपजातिच्छन्दांसि ॥ अथ शालिनीच्छन्दः । ग्रामेऽरण्ये वा पुरे वा गिरौ वा, शुद्धाचार्यस्थापितानीह यानि । देहेऽत्यन्तं गूढगुह्यप्रदेशा-न्याकारेण प्राज्यसौन्दर्यभाञ्जि ॥२४॥ मिथ्यादृग्भिर्नाऽपि च स्वीकृतानि, समयग्दृग्भिर्भावत: सेवितानि । अर्हच्चैत्यान्यत्र देशे स्थितोऽहं, वन्दे भक्त्या तानि सर्वाणि नित्यम् ॥२५॥
॥ युग्मम् ॥ अस्मिन् काले लेशतो विद्यमानः, काम्यः श्रीमज्जैनवाणीप्रकाशः । आधारोऽसावेककः प्राणभाजां, यत्सम्पर्कात् प्राप्यते शुद्धमार्गः ॥२६॥ अस्त्याऽऽधारोऽर्हत्प्रतिच्छन्द एष सौम्याकारो निर्विकारोऽद्वितीयः । सद्भावाप्तिदर्शनाद् यस्य पुंसां सञ्जायेत प्रायशो दोषनाशः ॥२७॥ दृष्टात्मानः केचिदैदंयुगीना लोकाः पापोद्भूतमिथ्यात्वयोगात् । नो मन्यन्ते स्थापना विश्वभर्तु-दुष्टैर्वाक्यैर्ये तु निन्दन्ति पूज्याम् ॥२८॥ जैनाभासास्ते हताशा: स्वकृत्ये, स्वेच्छोत्सूत्रालापिनः पापचित्ताः । संसारेऽस्मिन् दुर्गतौ गन्तुकामाः, सन्त्येतेषां दुर्दशां तर्कयामि ॥२९॥ युग्मम् ।। अथ स्रग्विणीच्छन्दः । भावतीर्थेशितुर्दर्शनं सर्वदे-च्छामि संसारनिस्तारकारि ध्रुवम् । भावनिक्षेपमाधाय चित्ते स्वयं, स्थापना-द्रव्य-नामाख्यनिक्षेपकान् ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org