SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ लास्ति । ए: । न श्वि-जागृ[शस-क्षणम्येदितः सि० ४-३-४९] इत्यनेन सिचि वृद्धिनिषेधार्थः । यथा-लगे-सङ्गे, अलगीत् । ऐः । डीयश्व्यैदितः क्तयोः [सि० ४-४-६१] इति इनिषेधार्थः । यथा- त्रस्तः, त्रस्तवान् । ओः । सूयत्याद्योदितः [सि० ४-२-७०] क्तयोः तस्य नकारार्थः । यथा- ओलसजेड् (ओलस्जैति)-व्रीडे, लग्नः, लग्नवान् ।। औः । धूगौदितः [सि० ४-४-३८] इति इट् विकल्पार्थः । यथा-गुपौरक्षणे, गोपाय(यि)ता, गोप्ता । अनुस्वारः एकस्वरादनुस्वारेतः [सि० ४-४५६] इति इनिषेधार्थः । यथा-पां-पाने, पास्यति, पाता । णींग-प्रापणे, नेष्यति, नेता । डुक्रींग्श्-द्रव्यविनिमये, क्रेष्यति, क्रेता । विसर्गो नास्ति । इति स्वराद्यनुबन्धफलम् । अथ कादयोऽनुबन्धाः । धातुषु प्रत्ययेषु च यथासम्भवं दर्शयिष्यन्ते । कः । अदादेरुपलक्षणार्थस्तथा प्रत्ययेषु गुणनिषेधार्थः । यथा-क्वक्वत्-(क्त-क्तवतु)क्तिषु, कृतः-कृतवान्-कृतिः । खः । प्रत्ययानां, खित्यनव्ययारुषो मोऽन्तो हुस्वश्च [सि० ३-२-१११] इति पूर्वपदस्य मागमार्थः । यथा- मेघं करोतीति मेघङ्करः । मेघर्तिभयाभयात् खः [सि० ५-१-१०६] इति खप्रत्यये । गः । ईगितः [सि० ३-३-९५] इति फलवत्कर्तर्यात्मनेपदार्थः । यथाश्रिग्-सेवायाम्, श्रयते । घः । घञ्-घ्यणादिषु, तेऽनिटश्चजोः कगौ घिति [सि० ४-१-१११] अत्र विशेषणार्थः । यथा- 'डुपचींष्-पाके, घबि पाकः । त्यजं-हानौ त्यागः । ङः । इङिगः(इङित) कर्तरि [सि० ३-३-२२] आत्मनेपदार्थः । यथा- शीङ्क - स्वप्ने, शेते । प्रत्ययार्थानां गुणनिषेधार्थः । यथा- ऋतेर्डीयः [सि० ३-४-३] ऋतीयते । च: । दिवादिलक्षणार्थः । छजझा न सन्ति । बः । [ज्ञानेच्छा !] बीच्छील्यादिभ्यः क्तः [सि० ५-२-९२] इति वर्तमाने क्तार्थः । बिष्वपंक् शये, स्वपितीति सुप्तः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy