________________
४०
तपा. दीप्तिविजयप्रणीतं श्रीचतुर्विंशतिजिनस्तोत्रम्
॥ ६०॥ एँ नमः ॥
श्रीशारदां सद्वरदां प्रणम्य, नत्वा गुरूणां चरणारविन्दम् । स्तवीमि नाभेयजिनेन्द्रमुख्यान् संसारपाथोनिधिपोततुल्यान् ॥१॥ चेतो दृढं मेऽभिलषत्यजत्रं त्वद्दर्शनं चन्द्रसुदर्शनीयम् । वरेण्यमर्हन्निव वाञ्छितार्थं, नाभेय ! नेतः ! कमनीयकान्ते ! ||२|| एषैकस्मिन् तव सुरुचिरा रूपलक्ष्मी ( : ) त्वयीव, पौलोमीशेषु न बहुषु सद्धाम ! मातङ्गलक्ष्म ! चन्द्रे ज्योत्स्ना जगति हि यका चक्षुरानन्दकारी, प्रोद्यज्ज्योतिर्जितखग ! न सा वर्तते तारकेषु ||३||
श्रीसम्भवासः सुखसम्भवः सः शिवाय नित्यं जगतां त्रयाणाम् । यत्पादपद्मेऽङ्कमिषाद्धयेनो- द्यमः कृतः त्यक्तुमिवाशु गौ (गो) त्वम् ||४|| सर्वज्ञनामस्मरणाज्जनानां प्रयान्ति मिथ्यात्वविषाणि नाशम् । शाखामृगाङ्काऽधिककायकान्ते मन्त्रात् पराज्जाङ्गलिकादिवाऽहेः ||५|| सिंहासने हेममये स्थितः सन् विभ्राजते श्रीसुमतिर्जिनेन्द्रः । शृङ्गे प्रबर्हे स्म यथोदयायो - दयाचलस्यागत उष्णरश्मिः ||६|| पद्मप्रभस्तीर्थकरः स भूयात् (द्), मोक्षस्य सौख्याय सतां जनानाम् । सहस्रनेत्रोऽपि बभूव वज्री, द्रष्टुं क्षमो यस्य न रूपमाप्तम् ||७|| ध्यानं प्रति स्वान्तमलं त्वदीयं संलीनतां यातितरां मदीयम् । सुपार्श्व ! सर्वज्ञ ! नतेन्द्रवृन्दाऽयः प्रत्ययस्कान्त इव प्रकामम् ||८|| चन्द्रप्रभश्चन्द्रमरीचिवर्णः, चिरं स जीयाद् भुवि वर्णनीयः । प्रकामितं कल्पलतेव दत्ते, भव्याङ्गिनां यः प्रकटप्रभावः ॥९॥ ध्यानेन नश्यन्ति तमांसि नृणां कृतानि सम्यक् तनुवान (ङ्) मनोभिः | शम्भो ! तव श्रीसुविधीश ! लोक-नाथोदयेनेव तमांसि भानोः ॥ १०॥ शुभ्रत्वमेव सुयशः प्रकटीकरोति, येनेयी ( यि) वान् सह विधुर्निबिडं सखी (खि)त्वम् । आह्लादकार्ययमतो भृशमेव मन्ये, नेत्रेषु शीतलविभो ! जगतां कलङ्की ॥११॥
Jain Education International
,
9
अनुसन्धान ४८
For Private & Personal Use Only
www.jainelibrary.org