________________
जून २००९
स्तौमि जिनं वक्ष:स्थलवत्सं, मार्यपहं श्रीसंवरवत्सम् । सर्वविदं विश्वेश्वरवीरं, कर्मकलापापातनधीरम् ॥५॥ ( रुक्मवती - पङ्क्तिः ॥ ) सौमङ्गल्यं शुभमतियुक्तं वन्दे वन्द्यं कलुषविमुक्तम् ।
स्वर्गिसेव्यं सुमतिजिनेन्द्रं, विश्वज्ञेयं यतिजनचन्द्रम् ||६|| (मत्ता-पङ्क्तिः ।।) सौरेन्द्रचन्द्रार्चितपादपद्मं (!), पापप्रमुक्ताखिलसौख्यसद्म ।
सौसीम ! ये त्वां प्रणमन्ति भक्त्या, भवन्ति तेऽहः प्रतिराष्ट्र्युक्ताः ।। (इन्द्रवज्रा - ऽनु (त्रि)ष्टुप् II)
पवित्रपादं प्रणमाम्यपापं प्रभुः कुहेवाककुशास्त्रलापम् । प्रतिप्रकृष्टोत्तरदानदक्षः, यस्तस्य सौपार्श्वविभोः सुपक्षः ||८|| (उपेन्द्रवज्रा -ऽनु (त्रिष्टुप् ।।)
यो जिनमौनिमुनीश्वरसार अष्टमको हतदुष्टविकार: । तीर्थचतुष्कसुसेवितमूर्ति, नौम्यपवर्गगतं श्रुतकीर्तिम् ॥९॥
मौक्तिकमालाविकसितगात्रै नकिनरेन्द्रैर्मुनिमुनिपात्रैः नौमि नतं तं नवमममोहं, जैनपमेनं प्रतिहतमोहम् ॥१०॥
३७
(दोधका - ऽनु (त्रि) ष्टुप् II)
(मौक्तिकमाला - ऽनु (त्रि)ष्टुप् ॥ ) अनेकगुणि (ण) गणमौक्तिकदाम, सदा मदमर्दित ! तर्जितकाम ! जिताखिलकर्मसपत्ननिकाय ! विभो ! दशमेश ! ममाऽस्तु सुखाय ॥११॥
(मौक्तिकदाम - जगती II )
इह तोटककाव्यविदं सततं दशमं जिननायकमेकयुतम् । प्रणमामि निरामयमेनमहं, सकलामलकेवलकं मलहम् ॥१२॥
Jain Education International
विशदपक्षकृतादरसारकं, विकटकर्मकलापविदारकम् । विमलकेवललं वसुपूज्यकं, तमुत नौमि च तत्पदपङ्कजम् ॥१३॥ (द्रुतविलम्बितं जगती ॥ )
(तोटकं जगती II)
विमलजिनेनाऽऽगमकरप्रोक्ता (ता), तव गुणमाला कुसुमविचित्रा । विलसति माला वररमणीनां हृदि पुनरेषा श्रम [ण]गुणीनाम् (?) ||१४||
(कुसुमविचित्रा - जगती II )
For Private & Personal Use Only
www.jainelibrary.org