________________
१०
अनुसन्धान ४७
बीयद्धे चवलालक्खणम्मि जघणचवला भवे सा उ । चवलव्व तिप्पयारा विरामउ होइ विउला वि ॥११॥
द्वितीयार्द्ध पश्चिमदलेऽधिकृतगाथाया एव चपलालक्षणे द्वितीयचतुर्थावंशकौ गुरुमध्यगौ स्वयं च मध्यगुरू यदि भवतः । एवंलक्षणं किमित्याहजघनचपलेति-जघनचपलाभिधाना भवेत् स्यात् । सा तु सा पुनर्यथेयं सर्वतोमुखजघनविशेषणाविव चपला तथा विपुलाऽपि स्यात् । [ कथं ? ] इत्याहचपलेव त्रिप्रकारा- त्रिभेदा विरामतः विरतिमपेक्ष्य भवति, विपुलापि । इदमुक्तं भवति-यस्या द्वयोरप्यर्द्धयोः प्रथमगणत्रयापेक्षया न्यूनाऽधिका वा पदविरति: सा सर्वतो विपुला, यस्याः पुनः प्रथमार्द्धावतार्येव विपुलालक्षणं सा मुखविपुला, पश्चिमार्द्धावतारिणि वाऽस्मिन्नेव जघनविपुलेति गाथार्थः ॥ ११ ॥ |
पढमद्धे छहंसो होइ दुगप्पो जहेव गाहाए ।
तह बीयद्धे वि भवे सम्मित्तं भांति तं गीई ॥१२॥
तं गीतिं भणन्तीति क्रियासम्बन्धः । यस्याः किमित्याह - प्रथमार्द्धे प्रतीते षष्ठोंऽशको भवति, द्विकल्पो द्विप्रकारो, यथैव गाथायां यथेति दृष्टान्तार्थमेव अवधारणे, गाथायां सामान्यलक्षणायां, तथा तेन प्रकारेण द्वितीयार्द्धेऽपि भवेत् सा षष्ठांशो विकल्पो मध्यगुरुश्चतुर्लघुको वा तामेवंलक्षणां गाथां षष्टिमात्रां द्वयोरप्यर्द्धयोः पृथग् त्रिंशन्मात्रत्वात्, भणन्ति, पूर्वस्तत्र यो गीतिं गीतमार्गोपयोगिनीं विद्वांस इति गाथार्थः ||१२||
गाहाबीयदले जह छडंसो एगमत्तो उ ।
तह पढमद्धे वि भवे तं उवगीई भांति बुहा ॥ १३ ॥ गाथाद्वितीयदले द्वितीयार्द्धे, यथा येन प्रकारेण षष्ठोंऽशः कल्प एकमात्रो लघ्वेकमात्रेत्यर्थः, तुरवधारणार्थस्तथा प्रथमार्द्धेपि यस्याः षष्ठ एकमात्रो भवेत्तामनन्तरोक्तलक्षणामुपगीतिं भणति बुधा: - विद्वांस इति गाथार्थः ॥ १३ ॥
गाहाए जत्थ पढमबीयदलाणं विवज्जासो ।
उगी सा भणिया विरामअंसेहिं होइ पुव्वसमा ॥ १४ ॥ यत्र यस्यां गाथायामुक्तलक्षणायां प्रथमद्वितीयदलयोः विपर्यासो व्यत्ययः, प्रथमार्द्धलक्षणं सप्तांशाश्चतुर्मात्रा अन्ते च गुरुरित्यादि तत्, द्वितीयार्द्धे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org