________________
२६
पुराऽपि जानामि न मे जनन्यः,
शीलं विलुम्पन्ति युगात्ययेऽपि ॥२२॥ [ उपजाति ]
तातस्त्वसम्भाव्यतमं विकल्प - ममुं दधौ तत् किमहं करोमि । पुरः सरित्पूर इवाऽविषह्यः, कोपो जनानामपि किं नृपाणाम् ? ||२३|| कालक्षेपः क्षेमहेतोस्तदस्मिन् कार्यः किञ्चित्कल्पयित्वाऽप्युपाधिम् । कालक्षेपात् कोपसंरम्भ एष, स्वान्ते येन स्वामिन: शान्तमेति ||२४|| [ शालिनी ] ध्यात्वा धीमानित्ययं तत्समीपे, जीर्णां काञ्चित् कुम्भिशालामधाक्षीत् । चक्रे चामुं सर्वतोऽपि प्रघोषं, भूपादेशादेष दग्धोऽवरोधः ॥ २५ ॥ इतश्च वीरप्रभुमित्यपृच्छत्, संयोज्य पाणी मगधाधिराजः ।
अनुसन्धान ४६
आदिश्यतां चेटकपुत्रिकेयं, किमेकपत्नी ? किमनेकपत्नी ? ||२६|| [ उपजाति ] स्वामी जगादेति नरेन्द्र ! सर्वा, अपि प्रियास्ते ननु शुद्धशीलाः । स्मृत्वा पुनश्चेल्लणयेत्यवादि, शीते मुनिं तं भविता कथं सः ? ||२७|| आकर्ण्यत्यनुतापपूरितमना भूपः पुरं प्रत्यसौ ।
यावद्धावति तावदर्द्धसरणा- वभ्यागतं धीसखम् ।
[शार्दूल० ]
तं वीक्ष्येति जगाद किं नु विहिताऽऽज्ञा मे त्वया ? सोऽप्यवक्, चक्रे सा ननु देवशासनमहं नोल्लङ्घये जातुचित् ॥२८॥ कोपारुणाक्षः क्षितिपस्ततस्तं जगाद पापिन् ! परतो व्रजाऽऽशु । दग्ध्वा स्वमातृः पतितोऽसि नाऽग्नौ कथं मुखं दर्शयसे निजं त्वम् ॥२९॥ [ उपजाति]
Jain Education International
1
,
नृपोऽप्यनाकर्ण्य गिरं तदीयां ययौ पुरेऽन्तःपुरमक्षतं तत् । विलोक्य जीर्णेभकुटीं च दग्धा - मशंसदुच्चैरभयस्य बुद्धिम् ||३१|| पाप ! व्रज त्वं परतो यदीदृक्, प्रोचेऽभयं प्रत्यथ तद्विमृश्य । राजा ययौ सान्त्वयितुं सुतं त-मत्युत्सुकः संसदि वीरभर्तुः ||३२|| गृहीतदीक्षं तमवेक्ष्य तत्र, भेजे विषादेन भृशं स भूपः । अथाऽभयस्तं प्रतिबोधवाक्यमिदं जगाद प्रहतप्रमादः ॥ ३३ ॥ नरेन्द्र ! सन्धावचनं तदात्मनो विचिन्त्य चेतः कुरु मा विषादयुक् । व्रतं मयाऽऽदायि जिनेन्द्रपाणिना, ततस्त्वमप्यत्र भजाऽनुमोदनाम् ||३४|| [वंशस्थ ]
For Private & Personal Use Only
www.jainelibrary.org