SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १० ततः कायद्वारोपरि पदमशब्दं प्रथमतस्ततोऽस्पर्श तस्मादरसमथ चाऽरूपमपरम् । अगन्धं चैतस्मादकुलममलं चापि परतस्तदूर्ध्वं चाऽनन्तं समरसमतश्चापि सहजम् नित्यं ज्ञानं शिवपदं निरञ्जनपदं तथा । शक्तिपदं चाऽऽदिपदं तदन्ते परमं पदम् शरीरमेतत् किल देहभाजां स्यादात्मतालैः प्रमितं चतुर्भिः । सूक्ष्मं तु तालार्द्धमधो विवृद्ध मूर्वं तु तालेन महद् वदन्ति यत्र मातृप्रतिमापि धात्री 'गतः क्षतानामपि भूरुहाणाम् । शिखाग्ररोधाद् विदधाति नाशं सूक्ष्माङ्गनाशः स्फुटमत्र हेतुः अधः शरीरस्य ततः स्थितानि स्थानानि चत्वारि विचारितानि । अशब्दधामप्रभृतीनि मूर्ध्वोऽप्यूर्ध्वं पुनः सप्तदशोदितानि नैरन्तर्यं स्थानकानुक्रमस्य, ब्रह्मग्रन्थौ कथ्यमाने नहि स्यात् । तस्मादेतन्नाडिकानां स्वरूपं, स्थानव्यक्त्या साम्प्रतं कीर्तयामः भवन्ति देहे दश मूलनायः प्रत्येकमेतासु वसन्ति भेदाः । द्वाभ्यां शताभ्यामधिकाः सहस्राः सप्त स्फुटस्थाननिवेशभाजः इडोत्तरस्यां दिशि भाति तस्यां पुरो यशा पृष्टगता कुहूः स्यात् । वामेषु नाशापुटकान्त- नेत्र - श्रोत्रेषु तासां क्रमशः प्रवाह: स्फुटतरपरिरम्भा नासिकान्ते नितान्तं कलयति किल केलि पिङ्गला दक्षिणेऽस्मिन् । १. धात्री यतक्षता० । > Jain Education International मार्च २००८ इति श्रीसमुच्चयविरचिते आनन्दसमुच्चयाभिधाने योगशास्त्रे स्थानप्रकरणं प्रथमं समाप्तम् ॥ For Private & Personal Use Only ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ ॥४६॥ ||४७|| ॥४८॥ ॥४९॥ www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy