SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ८ ब्रह्मग्रन्थिर्नाडिकानां सहस्रै द्वसप्तत्या मूलकन्दीकृतोऽस्ति । अन्यत्र्यास्ते चक्रमुज्जृम्भतेऽसौ यस्मिन् वह्निः पाकहेवाकसिद्धः एकैकशो दशविभेदविभक्तमस्ति प्राणादिकं पवनपञ्चकमेतदूर्ध्वम् । नाभौ ततोऽपि मणिपूरकचक्रमस्ति पत्राणि यत्र दश सन्ति तथाऽक्षराणि ॥२५॥ एतस्माद् गुणतत्त्वबुद्धिविषयस्थानं तथाऽनन्तरं सिद्धज्ञानगुहापदस्य तु भवेच्चक्रं ततश्च क्रमात् । चक्रं मध्यमवाक्पदस्य पृथिवीमुद्रास्पदं चक्रमप्यास्ते कुम्भकवायुचक्रमपरं हंसस्य चक्रं ततः - कारचक्रं हृदि कण्ठकस्य चक्रं ततो द्वादशवर्णपर्णम् । अनाहतं वक्षसि लक्षणीयं तदूर्ध्वमावेशपदं वदन्ति Jain Education International मार्च २००८ For Private & Personal Use Only ॥२४॥ ||२६|| ध्यानस्थानं स्थानमानन्दरूपं तस्मादूर्ध्वं विष्णुदेवास्पदं च । कण्ठस्थाने चाथ चक्रं विशुद्धेः पत्राणि स्युः षोडशाऽत्र' स्वराश्च चक्रं चाऽस्मादधिवसति वाग् वैखरी शब्दशक्ते र्मूलस्थानं तदनु ललनानामकं 'लम्बिकायाम् । चक्रं तच्च द्वयधिकदशभि: शासितं पर्णवर्णै रास्ते चाऽन्यत् तदनु पुरुषस्थानतो बुद्धितत्त्वम् ॥२९॥ मुद्रास्पदं च पवनस्य ततोऽम्बुमुद्रा देव्यादिमण्डलमतः क्रमतः समस्ति । सारस्वतस्तदनु तिष्ठति वाक्यकन्द - स्तस्माच्च पूर्णगिरिपीठमिति प्रतीतम् ||३०|| नासौभ्यन्तरतस्तृतीयतियडाचक्रं प्रकाशस्पदा - दाज्ञाचक्रमिदं त्रिवर्णकदलं भूमध्यमालम्बते । स्थानं शब्दलयं कपालकुहरस्याऽन्तः प्रतिष्ठां गतं मूर्द्धन्यूर्ध्वमतः कदम्बकगुहास्थानं समुज्जृम्भते तस्मात् पूरकवायुचक्रममुतः पीठं च जालन्धरं विश्रामाय समस्ति चक्रमपरं षण्णां रसानां तथा । तस्याऽनन्तरमस्ति चाऽमृतकलाचक्रं ततोऽपि क्रमाद् बिन्दुस्थानमथास्ति पञ्चविषयासक्तेन्द्रियाणां पदम् ||३२|| १. षोडशाऽस्य ॥ २. घण्टिकायाम् ॥ ३. नासास्या० ॥ ४. प्रकाश्या० ॥ ॥२७॥ ||२८|| ॥३१॥ www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy