SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ मार्च २००८ ॥५॥ ॥५॥ ॥६॥ ॥७॥ ||८|| वशंवदीभूतसमस्तसिद्धि - भद्राणि रुद्रस्तनुताज्जनस्य । ज्योतीरसाश्मद्युतिचितवृत्ति - निरञ्जनः कल्मषमुच्छिनत्तु नाथः कठमठनामा कामादिविपक्षपक्षजिज्जयति । श्रीमत्परमाणुगुरुं गुरुमहिमनिकेतनं नौमि नटत्वं किं तत्त्वं पिहितविषये वेषविषये न दम्भः संरम्भः किमु [य]ममये स्वस्वसमये । अजिह्यं न ब्रह्म प्रमदकलिते योगललिते गुरुत्वं सत्त्वं वा यदि न परमाणोः परिणतम् एतस्मात् परमाणुदेवसुगुरोस्तत्त्वामृताम्भोनिधे - र्यः प्रापत् परमप्रसादसुभगं तत्त्वोपदेशामृतम् । तेनाऽऽनन्दसमुच्चयाभिधमिदं शास्त्रं जगज्जीवनं योगीन्द्रेण समुच्चयेन रचयाञ्चके कृपाम्भोभृता शास्त्राण्यत्र पर:शतानि भुवने सन्त्येव किन्तु स्फुटो नार्थः केष्वपि केष्वपि स्फुटतरोऽप्यर्थः समस्तो नहि । शास्त्रेऽमुत्र ततो गिरां पुर इव प्रादुर्भवद्वस्तुनि स्फीतार्थग्रथिते फलेग्रहि मम स्यादेव लीलायितम् नानाकारेमतिर्विचारचतुरा न प्रायशो वादिना - मन्योन्यस्य समस्तवस्तुषु वचःसंवादमेदस्विनाम् । किन्तु स्यादपवर्गमार्गविषयश्रद्धावतः कस्यचिनाध्यात्मप्रतिपत्तिपर्वणि विसंवादप्रवादः क्वचित् अध्यात्मसिद्धिजनितं जनतातिवर्ति प्रत्यक्षसिद्धमखिलं फलमश्नुवानः । अत्रोपदिष्टमपवर्गनिसर्गवैरी न श्रद्दधीत किमु नास्तिकपुङ्गवोऽपि ? ॥९॥ ||१०॥ ॥११॥ १. तेष्वपि । २. ०मतिप्रचारविधुरा । ३. मेदस्विता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy