________________
३८
अनुसन्धान-४०
स्वोद्योतवीक्षणविनिर्जितचन्द्रपा, यस्याननं निरुपमं भविकस्य तोषम् । संवीक्ष्य नेत्रमुपयाति भयप्रमाणं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥४॥ पभेक्षणा घनपयोधरभारनम्राश्चैत्ये नरीनृतति यस्य पुरो ब्रुवाणाः । गीतस्तुतिं जिनपतेः कथिताऽऽर्यगाथं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ।।५।। श्रीस्तम्भनाधिपजिनं रतलामपार्वं, यं श्रीअवन्ति-मगसी-पुरतीर्थराजम् । नत्वा जिनं लभथ सौख्यमहो ! सुसार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ।।६।। शोश्वरादिरुचिरैर्जिननामधेयैः, पार्श्वप्रभुर्विजयते भुवि नीलवर्णः । सम्पूरयन् जनमनोऽभिमतं कृपार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥७॥ योऽभ्यर्चितस्तु कुसुमैर्विधिना स्तुतो वा, पापं भिनत्ति भविनां यदि शं प्रदत्ते । कल्पद्रुमौघफलितश्च समीहितार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥८॥ इत्थं मुदा श्रीरतलामरत्न ! श्रीरत्नधीरस्य गुरोः प्रसादात् । ज्ञानप्रमोदेन जिनः स्तुतो वः, पायादपायात् स हि पार्श्वदेवः ॥९॥ इति श्री पार्श्वनाथस्य लघुस्तोत्रम्
प्राकृत भारती अकादमी, १३-ए, मेन मालवीय नगर,
जयपुर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org