SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ जुलाई-२००७ जहाति दयमानोऽपि घनसारो न सौरभम् ॥७|| विकारमुपकारोऽपि कुरुते समयं विना । अकालोपस्थिता वृष्टि-महारिष्टाय जायते ॥८॥ निसर्गेणैव पिशुनः स्वजनोच्छेदमिच्छति ।। राहुराहूयते केन विधोवैधुर्यहेतवे ॥९॥ निजव्यापारनिश्चिन्ता निद्रायन्ते भुजङ्गमाः । जगद्बोहप्ररोहाय यतो जागति दुर्जनः ॥१०॥ दुर्जनः कालकूटश्च ज्ञातमेतौ सहोदरौ । अग्रजन्माऽनुजन्मा वा न विद्मः कतरोऽनयोः ॥११॥ को भोगभृतां मूनि साधु नाऽधत्त यद् विधिः । सकर्णकोऽथ कुरुते मर्मवित् कर्म तादृशम् ॥१२॥ गर्व ! सर्वकषोऽस्मीति गिरं मा स्म वृथा कृथाः । अद्यापि तव जैत्राणि चरित्राणि दुरात्मनाम् ।।१३।। समर्थानां समर्थोऽरि-निग्रहाय परिग्रहः । प्रभविष्णुस्तमोऽन्ताय प्रभा प्रातः प्रभापतेः ॥१४॥ स्वामिन्यस्तं प्रपेदाने सीदत्येव परिच्छदः । भास्वत्यस्तमिते म्लान-कमला: कमलाकराः ॥१५॥ चारणा परिवारेण प्रभुलॊके महीयते । महीरुहेषु महितः “किंकिल्लिर्निजपल्लवैः ।।१६।। महिमानं महीयांसं सङ्गः सूते महात्मनाम् । मन्दाकिनीमृदो वन्द्यास्त्रैवेदीवेदिनामपि ॥१७॥ सदा सर्वजनैर्नोग्यं श्लाघ्यं भवति वैभवम् । सुखपेयं(य-)पयःपूरं वरं कूपात् सरोवरम् ॥१८॥ लोकम्पृणानपि गुणान् दोषः स्वल्पोऽपि दूषयेत् । अपेया पश्य पीयूष-गर्गरी गरबिन्दुना ॥१९॥ प्रीणयन्नुपकुर्वाणं कुर्यात् कार्यविर्चक्षणः । पुष्पन्धि(न्ध)यो न पुष्पाणि दुनोति स्वं धिनोति च ॥२०॥ क्रूरप्रभोः प्रभुत्वेन जनो जीवन् मृतायते । असन्त इव सन्तोऽपि स्युर्भावास्तिमिरोदयात् ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520540
Book TitleAnusandhan 2007 07 SrNo 40
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy