________________
88
ताः शारदेन्दूपमपाण्डुवक्त्राः कायेन चामीकरतुल्यभासः । तस्मादिमाः काञ्चनभित्तिभागे, वक्त्राण्यपश्यन्न हि शेषमङ्गम् ॥८१॥ काचिन्निशि व्योमगतेव देवी, वातायनस्योपरि संस्थिताऽपि । अलक्षिताऽलक्षितसौधमुच्चै - रेतत् किमासीद् वद कोविदाशु ॥८२॥ शीतांशुरश्मिप्रकरावमग्ने, सा स्फाटिके सौधतले' निषण्णा । अलक्षिताधः स्थितसौधमेवं, देवीव लोकैर्ददृशेऽम्बरस्था ||८३ || कश्चित्करेणु-र्मदसिक्तरेणुः, प्रत्यापतन्तं कृतकोपमाशु । आत्मानमेवाऽभिदधाव दूरा-दाचक्ष्व किं कारणमत्र दक्ष ! ||८४|| ऊ महत्यम्बुनिधेरिभेशः, प्रत्यापतन्तं प्रतिबिम्बितं सः । आत्मानमेवं प्रविलोक्य कोपा दन्येभशङ्कोऽभिदधाव दूरात् ॥ ८५॥ यद्वेश्म वर्षास्वपि वारिदाना - माऽभेदि वार्भिर्न कदापि मध्ये | तत् किं विभोः कस्यचिदम्बुयोगं, विनाप्यभूद् वारिमयं निशासु ॥८६॥ "शिशिररश्मिकरप्रकरप्लुतं, "प्रवरचन्द्रमणिस्फुटकुट्टिमम् ।
सदनमम्बु विनाऽपि निशास्वभूत्, सचिवशेखर ! वारिमयं ततः ॥८७॥ वारिकेलिसमये वनिताभि-र्लब्धिमग्निसमिधां हि विनाऽपि । अन्वभावि शिशिरं पुनरुष्णं, किं तदेव सलिलं सरसोऽन्तः ॥८८॥ उपरि तरणितापादुष्णमन्तस्तदम्भः,
शिशिरमिति विदान्तच्चकुरुष्णं च शीतम् ।
>
विषमविशिखतापादुष्णमङ्गेषु लग्नं,
तदितरमिति शीतं वाविदाञ्चकुरेताः ॥८९॥ सुरभिसङ्गसमुद्धतकोकिल- भ्रमरराजिविराजितकाननम् । १५
निजगृहं पथिकश्चिरमागतः कथमुदीक्ष्य तथैव पुनर्ययौ ॥९०॥
Jain Education International
,
अनुसन्धान ३९
१. अ.ब. गवाक्षस्य । २. ब. लग्ने । ३. ब. सौधं तु नृपमन्दिरम् । ४. ब. अनेन प्रकारेण । ५. अ. हस्ति । ६. अ.ब. सम्मुखमागच्छन्तं । ७. ब. प्रतिफलितं । ८. ब. प्रतौ 'आत्मानमेव' इति पाठः । ९. ब. शीते तुषार शिशिर इति । १०. ब. लापिनं । ११. ब. श्रेष्ठ । १२. ब. कुट्टिमत्वेस्यबद्धभू । १३. ब. विद् ज्ञाने । १४. ब. वसन्त इक्षुः सुरभिः पुष्पकालो बलाङ्गकः । १५ वाटिकां ।
For Private & Personal Use Only
www.jainelibrary.org