________________
नवेम्बर
१७ - श्रीकुन्थुनाथस्तुतिः
(हरिणीछन्दः)17 जिनपदयुगं वन्दे मोहद्रुमप्रमयप्रधि, निरवधिगुणग्रामारामाद्रिजातटसन्निधिम् ।। शिवपुरपथप्रस्थानाश्वं व्यपोहितदुर्मति, प्रथिमशमथश्रीमत्कुन्थोः प्रसारितसन्मतिम् ॥१॥ जिनपरिवृढा गाढं गूढाध्वतः कलुषव्रजाऽपहतिचतुरा गोत्रोन्नत्यप्रथा प्रथनध्वजाः । मम विदधतां चेतःस्वास्थ्यं कषायहतात्मनः, शिवपदसुखे तेजःपुञ्जात्मका विवशात्मनः ॥२।। गणधरवरैर्यन्निष्पाद्यं तमोत्तरभास्कर, विगलितमदद्वेषोन्मादव्यलीककलाबलम् ।। भजत भविनो जैनं वाक्यं मरुत्तरुसत्फलम् ॥३॥* प्रवचनसुरः श्रीगन्धर्वस्तनोतु तनूमतां, नयनकुमुदानन्दी माद्यद्विवेकवचोवताम् । अतुलकुशलश्रेणी सम्यग्दृशामुपकारकः, पिशुनरसनादृग्दोषोत्थव्यथाऽर्णवतारकः ॥४॥
१८ - श्रीअरनाथस्तुतिः
(हरिणीछन्द:18) भगवदरनाथं नौमीशं देवराजनतक्रम, विदुरनिकराराध्यं देवं निष्ठिताघभरभ्रमम् । दुरितदहनस्वाहाकान्तं श्लेशलेशविनाशकं, विमलचरणज्ञानाधारं शुद्धपन्थप्रकाशकम् ॥१॥ जिनपतिगणास्ते भूयासुः श्रेयसां ततिकारका,
अवितथपथाख्यानप्रष्ठाः सारलक्षणधारकाः । १५. शस्त्रधारम् । *एक चरण तुटेल छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org