________________
September-2005
73
ननु अत्र क्त्वाप्रत्ययः कुत्र काले प्रयुज्येत ?, उच्यते-अव्यवहितपूर्वकालापेक्षया क्त्वाप्रत्ययः सिद्धः । यथा- प्रणम्य प्रक्रियां ऋजुं कुर्वः, इति। तत्र प्रणमनानन्तरमेव प्रक्रियार्जवकरणमित्यर्थप्रादुर्भावः स्यात्, तेन अव्यवहितपूर्वकालापेक्षिक्त्वाप्रत्ययोऽत्र ।
ननु चेत् यदि पूर्वकालापेक्ष एव क्त्वाप्रत्ययः प्रादुःष्यात्, तदा मुखं व्यादाय स्वपिति, अक्षिणी सम्मील्य हसतीत्यादौ पूर्वकालमन्तरेणापि क्त्वाप्रत्यय उपलभ्यते । मुखव्यादानाक्षिसम्मीलनक्रिययोः स्वापरसनक्रिययोश्चैककाले एव प्रत्यक्षेण कक्षीक्रियमाणत्वात् । नच मुखव्यादानानन्तरं स्वपनं, अक्षिसम्मीलनानन्तरं च हसनमित्यर्थाऽऽविर्भावोऽभिष्यात् । द्वयोः क्रिययोः समानकाले एव दृश्यमानत्वेन आनन्तर्यक्रियानुपलब्धेरिति । नैवम् - इहापि पूर्वकालापेक्षाऽस्त्येव । कथं स्वापक्रियायामुखव्यादानादुत्तरकालीनत्वाद्भवति, मुखव्यादाने पूर्वकालताप्रवृत्तिरेवं हसनक्रियाया अपि अक्षिसम्मीलनात् उत्तरकालीनत्वात् स्यात्, अक्षिसम्मलीने पूर्वकालताप्रवृत्तिरिति सिद्धोऽत्र पूर्वकालापेक्षया क्त्वाप्रत्ययस्थानीयः क्यप् इति ।
इति प्रणम्यपदसमाधानम् लेशतः कृतं पं. सूरचन्द्रेण
श्रीरस्तु लिखितं श्रीजावालपुरे पं. चि. भाग्यसमुद्रवाचनार्थमिति शुभं भवतु । किं तद्वर्णचतुष्टये नवनजवर्णैस्त्रिभिभूषणं,(?)
आद्यैकेन महोदयेन विहगो मध्यद्वये प्राणदः । व्यस्ते गोत्रतुरङ्गचारिमखिलं प्रान्ते च सम्प्रेषणं, ये जानन्ति विचक्षणाः क्षितितले तेषामहं किङ्करः ॥
[ कुवलयम् ] शुभंभवतु लेखकवाचकयोः
Clo. 13-A, मेन मालवीय नगर
जयपुर-३०२०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org