SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 62 अनुसन्धान ३३ गौर्यामानं ज दृष्टा (?) ....... सङ्ख्यका नित्यमेवं शीर्षाणां चैव वन्ध्यामसनवतिरभूल्लोचनानामशीतिः ॥११॥ निरङ्के दोषेशे मृगमदकलङ्क वितनवै प्रियेत्युक्ते वेदौ कृतशिखरबिन्दौ गिरिजया । कर्प(प)र्दश्रीगङ्गाधरहरशिरस्यद्भुतमभूत् धनुःशृङ्गे भृङ्गेस्तदुपरि गिरिस्तत्र जलधिः ॥१२।। उद्दामार्काशुदीप्यद्दिनमणिमणिभिः भस्मितान्ते समन्तात् __ वायुव्याधूयमानज्वलदनलकणाकीर्णधूलिप्रपणे । 'कान्तार(रेऽ)स्मिन् तृषार्ते मयि पथिक ! भवेत्का(क्वा)ऽपि पाथोप्यतेना(?) शूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः ॥१३॥ नीपाभट्टस्येतौ ॥ ये तापं शमयन्ति सङ्गतिभृतां ये दानशृङ्गारिणि(णो) येषां चित्तमतीव निर्मलमभूद्येषामभग्नं व्रतम् । ये "सर्वे सुखयन्ति सङ्गतिजनं ते साधवो दुलभा(र्लभाः) गङ्गावज्जल(गज)गण्डवत्गगनवत् गाङ्गेयवत् गेयवत् ॥१४॥५ इति श्रीचित्रकाव्यसंपूर्णम् । संवत १७७६ वर्षे प्रथम-आश्वनसित-११, रवौ लिखितममृतपुरमध्ये । श्रीवासुपूज्यप्रसादात् । शुभं भवतु । श्री(श्रि)योऽस्तुं (स्तु) ॥ १. कान्तारेऽस्मिन् नृपात्ते पथि पथिकभवे काऽपि पाथोदसेना सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः - इति सु.र.भा. ॥ २. १८४/७४ सु.र.भा. ॥ ३. निर्मलतरं - इति सु.र.भा. ।। ४. सर्वान् सुखयन्ति हि प्रतिदिनं - इति सु.र.भा. ॥ ५. १८२/४८ सु.र.भा. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy