________________
अनुसन्धान ३३
श्रीरुपास्ते कामीशानं कमीशानं च पार्वती ।
'अमुं निगदितं प्रश्न यो जानाति स पण्डितः ॥७|| अथ कर्तृगुप्तम्
शरदिन्दुकुन्दधवलं 'नगनिलयरतं मनोहरं देवम् ।
यैः सुकृतं कृतमनिशं तेषामेव प्रसादयति ॥८॥ मनः कर्तृपदम् ॥८॥ अथ कर्मगुप्तम्
मांसं भुझ्व द्विजश्रेष्ठ ! सन्त्यज्याऽखिलसत्क्रियाम् ।
संदिष्टं ब्रह्मणा पूर्वं द्विजानां गृहमेधिनाम् ॥९॥ मां लक्ष्मीमिति कर्म ॥९॥ अथ करणगुप्तम्
मदमत्तमयूरस्य मलयस्य गिरेस्तटे ।
सीताविरहसंतप्तं रामं मुहुरमूमुहत् ॥१०॥ मयूरस्य गिरा कृत्वा इ:-कामो रामममूमुहदित्यन्वयः ॥१०॥ अथ सम्प्रदानगुप्तम्
अम्भोरुहमये स्नात्वा वापीपयसि कामिनी ।
ददाति भक्तिसम्पन्ना "पुष्पं सौभाग्यकाम्यया ॥११॥ अये-कन्दर्पायाऽम्भोरुहं ददातीत्यन्वयः ॥११॥ अथाऽपादानगुप्तम्
सरसीतोयमुद्धृत्य जनः कन्दर्पकारकम् ।
पिबत्यम्भोजसुरभि स्वच्छमेकान्तशीतलम् ॥१२॥ सरसीतः कं-जलमुद्धत्येति संबन्धः ।
सरसीत इत्यपादानम् ॥१२॥ १. श्री: उम्-विष्णुम, पार्वती अम्-शङ्करम् ॥ ४. 'पुत्रसौभाग्यकाम्यया' इति सु.र.भा. ॥ २. 'नगरपतिनिलयं' इति सु.र.भा.। ५. सु.र.भा. १९४/३१ ।। ३. सु.र.भा. १९४/२५ ॥
६. सु.र.भा. १९४/३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org