SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 50 अनुसन्धान ३३ अम्बुदा (दास्) तेषामाली - पङ्क्तिस्तस्या रुगिव रुक् यस्याऽसौ घनश्याम इत्यर्थः । किम्० ? मण्डाशाकरखण्डन:- मण्डाश्चारुणुदिय: (श्चाणूरादयः ?) तेषामाशाःइच्छास्तासामोका(माक) र : - समूहस्तं खण्डयतीति मण्डाशाकरखण्डनःमल्लेच्छासमूहनाशकर इत्यर्थः । हे क्षीरसागरे आ समन्ताद्भावेन वस्य ( स ) तीति हे क्षीरावस ! | हे अतुल्य !- नाऽस्ति तुल्यो यस्याऽसौ हे अतुल्य ! किम्० माम् ? सासु (सुं)-असवः प्राणास्तैः सह वर्तमानम् । पु० ? अलितडिन्निभाङ्गवसन:- अङ्गं न (च) वसनं चाऽङ्गवसने, अलिश्च तडिच्चाऽलितडितौ, तयो: निभाऽऽभा, तद्वन्निभा ययोस्तेऽलितडिन्निभे अङ्गवसने यस्याऽसौ अलितडिन्निभाङ्गवसनः । पु० ? सारवान् - सारो बलमस्याऽस्तीति सारवान् - पालनसमर्थ इत्यर्थः ॥१॥ कोल कृतिरपारेवो मोरोहंसो जलोदरी । कंसारिरात्तडीडो-बो वाघ (श्च) लो भूकलोऽवतु ॥२॥ कंसारिः-श्रीकृष्णः । वो- युष्मान् (न)वतु, बवयोरैक्यं रक्षतु । कोलकृति:- कोलस्य रूपं यस्य सः । आ (अ) पारेव:-आ (अ) पारे० संसारेऽवति रक्षति । तथा मोरोहंसः -मा- लक्ष्मीः, तस्याः उ[:] - वक्षः, तत्र हंस इव हंसः । तथा [जलोदरं - [जलं गृहं यस्याः सः । किम् ? आत्तलीलः - आत्ता - अङ्गीकृता लीला - विलासो येन सः । तथा किम्० ? वाश्वल:- निश्चये [न] अश्वं लुनातीति (?) । तथा किम् ? भूकलः - भुवं कलयति - उद्धरति । किम् ? कंसारिः । १. पाण्डवानां सभामध्ये दुर्योधनः समागत: । ' तस्मै गां च हिरण्यं च रत्नानि विविधानि च ॥ मह देसु रसं धम्मे तमवसमासंगमागमाहरणे । हरवहुसरणं तं चित्तमोहमवसरउ मे सहसा ||३|| 'आगताः पाण्डवाः सर्वे दुर्योधनसमीहया' इति सु.र.भा. १९३ / १, शार्ङ्गधरपद्धतौ ५३४; यो धनसमीहया आगतस्तस्मै सर्वे पाण्डवा: गां च सुवर्णं च विविधानि रत्नानि च अदुः इति सु.र.भा. ॥ Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy