________________
अनुसन्धान ३२
2
सुधाकलशवाक्यात् कः सूर्यस्तस्य थो-भार :- प्रतापादिरूपः जगदुपकर्तृत्वादिरूपो वा, तं कथम् । भवान् किम्भूतः ?, उत्प्रधानं यातः - ज्ञातः, 'गत्यर्थानां ज्ञानार्थत्वात्' । ज्ञात: कै: ? शुक्लापाङ्गैः गुरुभिरपि । शुक्लं - नि:पापत्वात् विमलं अपाङ्गगणस्थापनारूपं तिलकं येषां ते, “अपाङ्गं नेत्रान्तपुंद्व (पुण्डू) यो" रित्यनेकार्थात्, तैः शुक्लापाङ्गैः । किं कृत्वा ? स्वागतीकृत्य - आदरं दत्वा । किम्भूतैः शुक्लापाङ्गैः ?, नयनैः, नये-न्याये नो बुद्धिर्येषां ते नयनाः तैः नयनैः । "नो बुद्धौ ज्ञानबन्धयो'रिति वाक्यम् । पुनः किम्भूतो भवान् ?, के- सुखी पच (र) दु:खं न जानाति, यत उक्तं च " सुखी न जानाति परस्य सु( दु:) खं"; त्वं तु परदुःखज्ञातृतया - सुखे सति अकं दुःखं अस्यति- क्षिपतीति क्विपि अका:दुःखोच्छेदक इत्यर्थः ॥२४॥
पाण्डुच्छायोपवनवृतयः केतकै[:] शुचिभिन्नैः नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः । त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २५ ॥
व्याख्या-पाण्डुच्छायेत्यादि । पाण्डुरुज्ज्वला चारित्रादिना छाया - शोभा यस्य सः, तस्य सं० हे पाण्डुच्छाय ! उ:- शम्भुः तद्वत् पाति- रक्षति (ति) । प:कामस्य(?) (कामः सः) तस्य सं० हे ऊ ( उ ) प ! - वनं । शूच्या- - सेवन्या अर्थ्या(र्था?)दुपदेशरूपिण्या भिनत्ति क्विपि, तस्य सं० हे शूचिभित् ! कस्य (स्ये) ति । उप, ईदृशं "वनं प्रश्रवणे गेहे " इति वचनात् वनं गृहं यस्य तस्य सम्बो० हे उपवना (न)!। अथवा ऊर्दया तां पान्ति - रन्न (क्ष) न्ति ड प्रत्यये ऊपानिजीवदयापराणि वनानि - गृहाणि यस्मात् । हे नू (नी) डारम्भ ! - नितरां ईडा - स्तुतिस्तस्या आरम्भ:- प्रारम्भो यस्य सः नीडारम्भः, तस्य सं० । इ:- काम: तस्य ए: शूचिभिद् - व्यथकत्वात् सेवनीभेदकः । कैः कृत्वा ? नै:- ज्ञानैः मतिश्रुत्या(ता)दिभिः “नो बुद्धौ ज्ञानबन्धयो" रिति वाक्यात् । नैः किम्भूतैः ?, केतकैः । "क: सूर्यमित्रवाद्यग्निब्रह्मात्मयमकेकिषु, प्रकाशवक्रयो" रिति सुधाकलशवाक्यात् क:- सूर्य:, तद्वत् इत: -, 'गत्यर्थानां ज्ञानार्थत्वात्' ज्ञातः कःप्रकाशो येषां ते केतकाः, तैः केतकैः । परिणतं परिपक्कं फलं स्वर्गादिरूपं यस्मात् सः, तस्य सं० हे परिणतफल ! । पे- मार्गे ज्ञानादिरूपे यतते क्विपि हे
,
64
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org