________________
अनुसन्धान ३२
" साधवो यं प्रशंसन्ति तमाहुः पुरुषोत्तममित्यादि ॥ " तथा"चारणा यं प्रशंसन्ति यं प्रशंसन्ति मद्यपाः । बन्धुक्यो यं प्रशंसन्ति तमाहुः पुरुषाधमम् ॥” इति । कः सूर्यमित्रवास्व (य्व?) ग्निब्रह्मात्मयमकेकिषु । प्रकाशवक्रयोश्चापि कं तीरसुखमूर्द्धसु ॥ इति सुधाकलशः । तेन हेतुना त्वयि-त्वद्विषये मघोनः - इन्द्रस्य अर्थित्वं- याचकवृत्तित्वं अस्ति । अर्थित्वं किम्भूम ?, गतो - नष्टः ऊहो - विचारो यत्र तत् गतोहं - निर्विचारमित्यर्थः । पुनः किम्भूतं ? अवरं - अश्रेष्ठं । त्वयि किम्भूते ? अधिगुणे- प्राप्तगुणे, नाधमे - नकारस्य निषेधार्थत्वात् अगर्हणीये इत्यर्थः । " अधमो न्यूनगयो "रित्यनेकार्थः ॥६॥
1
सन्तप्तानां त्वमसि शरणं तत्पयोद प्रियायाः सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्यो ते वसतिरलकानामयक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥७॥
48
व्याख्या-सन्तप्तानामित्यादि । असिना-कृपाणेन शः - श्रेष्ठः । “शं श्रेयसि सुखेऽव्ययः” । तस्य सम्बोधनं हे असिश ! अथवा 'शसयोरैक्यात्' असौ-सालक्ष्मीर्यस्य सः, तस्य सम्बोधनं असिश ! सन्तप्तानां - दुःखाग्निप्रोषितानां हे पयोद ! - हे जलदतुल्य ! सं-शोभनं ददाति, तस्य सम्बो० हे सन्द ! - हे प्रिय !! कस्य ? मे मम । आमा रोगा न सन्त्यस्य स तस्य सं० हे अनाम ! हे यक्ष !
हे धनद ! दानशौण्डत्वात् । " आ विधातरि मन्मथे" इति महीपवाक्यात् आमन्मथः तस्य, रम्यत्वात् उद्यानं क्रीडास्थानं तस्य सम्बो० हे ओद्यान ! । स्थितःगतिनिवृत्ति प्राप्तो हरः शम्भुर्यत्र तत् स्थितहरं ईदृशं शिरो - मस्तकं यस्य सः, तस्य सम्बो० हे स्थितहरशिरः !। तथा चन्द्रिकया धौतानि - क्षालितानि हर्म्याणि यस्य सः, तस्य सम्बो०। अथवा, "चन्द्रोऽम्बुकाम्ययोः स्वर्णे सुधांशौ कर्पूरे" इत्यनेकार्थवाक्यात् चन्द्र:- स्वर्णमस्त्येषु तानि चन्द्रीणि-स्वर्णवन्ति ईदृशानि । तथा क:-प्रकाशः तेन आ - समन्तात् धौतानि हर्म्याणि - धवलगृहाणि यस्य सः, तस्य सम्बो० हे चन्द्रिकाधौतहर्म्य ! अ इति सम्बोधनो (ने) । त्वं रणं-शब्दं हरअपनय । कस्य ? धनं द्रव्यं तस्य पति र्गमनं यस्मात् स धनपतिः, ईदृशो यः क्रोधः स एव विश्लेषी - विश्लेषितवान् यः तः - तस्करः सः,
तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org