SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 46 अनुसन्धान ३२ वि० ?, स्वकुशलं - स्वस्य आत्मीयस्य - ज्ञातेर्वा कुशलं - कल्याणं यस्मात् सः, तं तथैव । पुनः किंवि० ?, इं- कामं रूपवत्त्वात् । पुनः किंवि० ?, प्रवृत्तिःप्र-प्रकृष्टा- असावद्या वृत्तिर्वर्तनं यस्य । "अहो जिणेहिं असावज्जा वित्ती साहूण देसिया । " इत्यागमोक्तेः स तं तथा । पुनः किंविशिष्टं ?, प्रीतिप्रमुखवचनं प्रीतिसौहार्दं प्राति-पूरयतीति ड प्रत्यये प्रीतिप्रं ईदृशं मुखं वदनं तथा वचनं वाक्यं च यस्य स तं तथैव | भवान् किंविशिष्ट: ?, हारः जनानां भूषाकरत्वात् । पुनः किंवि० ० भवान् ?, इष्य इव - वसन्त इवाऽऽचरन् - इष्यन् शतरि जनानां (नं) दकत्वात् । अत्र “स्वरे यत्वं चे" ति सूत्रेण विसर्गस्य यकारः ॥४॥ धूमज्योतिः सलिलमरुतां सन्निपातः व मेघ: सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्त्ता हि प्रकृति कृपणाश्चेतनाऽचेतनेषु ॥५॥ । व्याख्या - धूमज्योतिरित्यादि । तं श्रीगुरुं सन्देशार्था इति ययाचेयाचितवान् । सं-शोभनं देशेभ्योऽर्थं - द्रव्यम् । असी गत्यादानयोरिति असतिआदत्ते क्विपि समर्थविशेषणात् । सन्देशार्थाः नृपः (पाः) देशेभ्योऽर्थग्राहकत्वात् । इतीति किं हे पातः ! - हे रक्षक ! केषां ?, धूमज्योति:सलिलमरुताम् । धूमेन युक्तो यो ज्योति:- वह्निः, तथा सलिलं - जलं, तथा मरुत्-वायुः, एषां द्वन्द्वः । ततस्तेषां हे सन्-साधो, इ इत्यामन्त्रणे । प्रतिपक्षः परो रिपु'रिति वाक्यात् परा:- शत्रवः सन्त्यस्मिन् असौ परी । न विद्यते ईदृश: शत्रुरहितत्वात् गणोगच्छो यस्य सः । अथवा अः - कृष्णस्तद्वत् सर्वव्यापितया परि-समन्तात् चतुर्दिक्षु गणो यस्य सः । तस्याऽऽमन्त्रणे हे अपरिगण ! | कुः- भूमिस्तस्या रक्षकत्वात्, अः - कृष्णः, तस्याऽऽ मन्त्रणं हे क्व ! । पटुः क - आत्मा यस्य स तस्याऽऽमन्त्रणे हे पटुक ! | इ:- कामस्तत्र यो यमः विध्वंसकत्वात् तस्याऽऽमन्त्रणं हे इय !! हे क:- हे ब्रह्मन् ! त्वं औत्सुक्यात् आम-आगच्छ । 'अम दुम गतौ' आङ्पूर्वकः । त्विं (त्वं) किं कुर्वन् ?, यन्- विहरन् । त्वं किंविशिष्ट: ?, कु- कुत्सिता अमारोगाः, कम्पः-खेदः, श्रमो - मूर्च्छत्यादयः यस्मात् स क्वमः । ईदृश: इ: -कामः तस्य घो-हननं यस्य सः क्वमेघः, “घः कुम्भे हनने" इति सुधाकलशात् । पुनः — Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy