SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान- ३१ नारकादिनवदण्डकजीवान् विरहय्य पञ्चदशापि दण्डकजीवाः सम्यक्त्वावाप्तिदार्यहेतवे प्रतिमापूजनायाऽहर्निशं यतन्ते ॥ १२ ॥ द्रव्यक्षेत्रकालभावभवान् प्रतीत्य कर्मणामुपशमक्षयोपशमादेः "उदयक्खयख (क्ख) ओवसमोवसमा य जं च कम्मुणो भणिया । दव्वं खित्तं कालं भवं च भावं च संपप्प ॥" इत्यादिना कर्मवादोपनिषद्वेदिभिः सिद्धान्तितत्वेन प्रतिमाद्रव्यनिबन्धनं दर्शनमोहनीय-चारित्रमोहनीयोपशमक्षयोपशमाद्यपि तत्र तत्र वर्णितं सम्यक्त्वविरत्यवाप्तिशुद्धयादि निर्णाययति । यदाहुरैदंयुगीनेभ्यः सत्त्वेभ्य उपदेशद्वारेण सिद्धसेनगणय: (देवगुप्ताचार्याः ) "अधुना हि सत्त्वाः प्रायोऽलसाः क्लेशादि - भीरवः प्रमादिनश्च तेषां शान्ताकारप्रतिमादि दृष्ट्वा द्रव्याद्यपेक्षकर्मोपशमादिलब्धमोहनीयविवरप्रसन्नमनसां प्रायेण तद्वचनश्रवणश्रद्धोपजायते ततो दर्शनादिलाभ” इति । केषांचिच्चाधिगतदर्शनानामपि प्रमादिनां प्रतिमादिदर्शने तद्वन्दनगुणानुस्मरणात् संवेगादि भवतीति साधूक्तं " तत्पूजनं न्याय्य" मिति ।" "अभ्यर्चनादर्हतां मनः प्रसादस्ततः समाधिश्च । तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥" कस्य इति तत्त्वार्थभाष्यविवरणे । अत एव सम्यग्दर्शनस्य विस्तराधिगतये निर्देशस्वामित्वसाधनाधिकरणादिनिरूपणप्रक्रमे स्वामिन उपवर्णनं सम्यग्दर्शनमिति । एतदात्मसंयोगेन परसंयोगेनोभयसंयोगेन चेति वाच्यम् । आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् । परसंयोगेन जीवस्याऽजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पाः । उभयसंयोगेन जीवस्य नोजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा न सन्ति, शेषाः सन्ति । उभयसंयोगस्य विवक्षितत्वात् संयोगविरहिता एते विकल्पा न सन्ति, शेषास्तु जीवस्य जीवस्य १ जीवस्य जीवयोः २ जीवस्य जीवानां ३ जीवस्याऽजीवस्य ४ जीवस्याऽजीवयोः ५ जीवस्याऽजीवानां ६ एते तु सन्तीत्यर्थः । स्वामित्वविवक्षायां मुख्यवृत्त्या तु यद् यत्र समवेतं तत्तस्यैव, व्यवहारेण तु परस्य निमित्तभूतस्यापि तद् व्यपदिश्यते । तत्र निमित्तापेक्षामृते सम्यग्दर्शनपरिणाम आत्मन्येव समवेत इत्यात्मसंयोगेन जीवस्य तदिति स्पष्टमेव । परसंयोगेन तु साधु- प्रतिमादि वस्तु निमित्तीकृत्य श्रद्धानपरिणाम उपजायते इत्येते एक Jain Education International • For Private & Personal Use Only www.jainelibrary.org
SR No.520531
Book TitleAnusandhan 2005 02 SrNo 31
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy