SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ August-2004 श्लाघाहेतुमुषापतेर्ध्वजमुमाभर्तुश्च लात्वा बलादेणं चाक्ष(क्षि)णि लाञ्छने च वृषभं बिभ्रद् भृशं हारिणि । स्वस्वाङ्के स्पृहया कलानिधिमहाव्रत्याश्रितो यो बभौ तद्वाग् देवगवा[क्ष]चारुचरणा दिश्यात् सतां गोरसम् ॥२१॥ यः स्वामी वृषवानपि प्रतिदिनं नोच्चैः सुरासक्तिमान् नो मातङ्गसखो बभूव भुवने नाऽपि द्वि[जि] ह्वाश्रयः । इत्याकारसतत्त्वजोऽजनि महान् भेदः सतां निन्दितो यस्मिन् सत्यपि चित्रहेतुमहिमा सार्वः स वः श्रेयसे ॥२२॥ आसंसारमिदं स्वयं विदधतः पाथोजयोनेर्जगज्जात: सच्चरणोऽयमेव भगवान् श्रीनाभिराजाङ्गजः । तन्मां पोषयितैष एव मतिमान् मत्वेति यत्पादयोश्चके चिह्नमिषाद् वृषः सुखमनाः सेवां स दिश्याच्छ्रियम् ॥२३॥ मीनेनेव पयोधिजातनुरुहो दम्भोलिनेवाऽद्रिभिद् दैत्यारातिरिव द्विजिह्वरिपुणा केकावतेवाऽग्निभूः । यः शोभां बिभरांबरांबभूव (बिभराम्बभूव) भगवाञ् शश्वद् वृषेणाऽद्भुतां देयाच्छर्म सतां स देवतिलकस्तोयं तडित्वानिव ॥२४॥ शश्वद् यस्य मुखे वृषस्थितिरभूत् पाश्र्वं वृषोपासितं श्रेयःश्रीशरणं च चारुचरणद्वन्द्वं वृषेणाऽद्भुतम् । इत्थं यस्त्रिजगतीपतिवृषमयो रेजे गुणानां निधिः म्नं(तं) चेतस्यनघं वहेम विजयश्रीहृद्यमाद्यं जिनम् ॥२५॥ श्रीऋषभशतकसरसी-विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति ॥२६॥ ॥ इति पण्डितश्रीकमलविजयगणिशिष्यभुजिष्य-पं. हेमविजयविचारचिते (विरचिते) श्रीऋषभजिनशतके ऋषभलाञ्छनवर्णनो नाम प्रथमः स्तवः सम्पूर्णः छ।।१॥छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520529
Book TitleAnusandhan 2004 08 SrNo 29
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy