________________
८१
पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्त्तेश्वरो विभुः, ईशितेनो नायकश्च" इति हैर्मः । “इन्द्र शक्रेऽन्तरात्मनि । आदित्ये योगभेदे च स्यादिन्द्रा तु फणिज्जके" इत्यनेकार्थसङ्ग्रहः । 'पाणि०' मते तु इदिधातोः अप्रत्यये “इन्द्रः पुं०, "देवाधिपे, परमेश्वरे, परमैश्वर्ययुक्ते (परमशोभायुक्ते इत्यर्थः ), इन्द्रदैवतज्येष्ठानक्षत्रे । द्वादशार्काश्चतुर्दश चेन्द्राः इति तु जैनेतरमते; जैनमते तु असङ्ख्या अर्काः इन्द्राश्च चतुष्षष्टिः इति । विष्कुम्भादित: षड्विंशे योगे, कुटकवृक्षे च" । अत्र तु स्वाम्यर्थः - परमशोभायुक्तो वेत्यर्थः । नगानां नगेषु वेन्द्रः - पर्वताधिप:, पर्वतेषु शोभमानो वा हिमालयः । सज्यते स्मेति सञ्ज्धातोः कर्मणि के सक्ता " आसक्ते, अविरते च त्रिलिङ्गः” । “तत्परे प्रसितासक्तौ” इत्यमरः । नगेन्द्रे सक्ता नगेन्द्रसक्ता, तां नगेन्द्रसक्ताम् पर्वतरामणीयकावलोकनप्रसिताम् ।
December 2003
I
दृश्यतेऽनयेति दृश्धातोः करणे क्तिप्रत्यये, 'पा०' मते च क्तिन्प्रत्यये दृष्टिः-चक्षुः । “चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैमैं: । "अक्ष्णि रूपग्रहो दी (दे) वदीपः" इति हैमशेषः । दर्शनमिति भावे क्तिप्रत्यये दृष्टिः मतिः । “मतिर्मनीषा बुद्धिर्धीधिषणाज्ञप्तिचेतनाः, प्रतिभा प्रतिपत् प्रज्ञाप्रेक्षाचिदुपलब्धयः, संवित्ति : शेमुषी दृष्टिः" इति हैर्म: । दृश्धातो: "भावे क्ति (क्तौ) निदर्शने, बुद्धौ च करणे क्तिनि नेत्रे, द्वित्त्वसङ्ख्यायाम्, “चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभासिकादृष्टिरित्युच्यते" इत्युक्तायां मनोवृत्तौ च" । अत्र तु नेत्रार्थ: । जैनमते च "ओघ - योगभेदेन द्विविधा, सम्यग्दृष्ट्यादिभेदेन त्रिविधा च । तत्र योगदृष्टि:
" मित्रा तारा बला दीप्रा स्थिरा क्रान्ता प्रभा परेति भेदादष्टधा" । तत्स्वरूपं च योगदृष्टिसमुच्चये द्वात्रिंशद्वात्रिंशिकायां च । “दृष्टिज्ञानेऽक्ष्णि दर्शने" इत्यनेकार्थसङ्ग्रहः । तां दृष्टिम् ।
अश्नुतेऽनयेति 'अशो रश्चादिः ' ॥ ६८८ ॥ इति 'उणादिश्रीसि० ' सूत्रेण 'अशौटि - व्याप्तौ' धातो: मिप्रत्यये धातोरादौ रेफागमे च रश्मिः प्रग्रहः मयूखश्च ।
4
१. अभि० चि० तृ० ३५८-५९ । २. अनेकार्थसङ्ग्रहे द्वि० ३८५ । ३. अम० तृ० विशेष्यनिघ्नवर्गे ४. अभि० चि० तृ० ५७५ ।
Jain Education International
२०४२ ।
५. अभि० चि० हैमशेषे - १२१ ।
६. अभि० चि० द्वि० ३०८-९ । ७. अनेकार्थसङ्ग्रहे- द्वि० ९० ।
For Private & Personal Use Only
www.jainelibrary.org