SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ७३ "गह्वरो बिलदम्भयोः, कुञ्जेऽथ" इत्यनेकार्थसङ्ग्रहः । स्त्रीत्वपक्षे ङीप् । अत्र तु गुहार्थ: । तद् गह्वरम् - गुहाम् । आविवेश प्रविवेश ॥ December - 2003 वाच्यपरिवर्तनं त्वेवम् - अन्येद्युर्मुनिहोमधेन्वा आत्मानुचरस्य भावं जिज्ञासमानया सत्या गङ्गाप्रपातान्तर्विरूढशष्पं गौरीगुरोः गह्वरमाविवेशे ॥ द्वाविंशे दिने धेनुः निजसेवकस्याऽभिप्रायं ज्ञातुमिच्छन्ती द्वाविंशे दिने नन्दिनी किमयं स्वार्थसाधनानुरोधादुत विशुद्धभक्तियोगात् मामेवं सेवते, इति मायाबलेन निजसेवकस्य दिलीपस्याऽभिप्रायं ज्ञातुमिच्छन्ती सुरसरित्प्रपातान्तविरूढबालतृणां हिमालयगुहामाविवेश इति सरलार्थः ||२६|| सा दुष्प्रधर्षा मनसाऽपि हिंस्त्रैरित्यद्रिशोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥२७॥ सेति । सा नन्दिनी । हिंसन्तीत्येवंशीला इति हिंसनशीला 'स्मय - जसहिंस-दीप-कम्प-कम-नमो र:' ( ५|२|७९ | | ) इति 'श्रीसि० ' सूत्रेण 'हिंस्हिंसने' धातोः शीलादावर्थे 'र' प्रत्यये हिंस्राः - व्याधा: । "हिंस्रै (स्रे) शरारुधा (घा) तुकौ" इति है : । "हिंस्रः स्याद्धातुके हिंस्रा मांसी काकादनी वसा" इत्यनेकार्थसङ्ग्रहैः । "पा०' मतेऽपि हिंस्धातोः रप्रत्यये हिंस्रः त्रिलिङ्गः । "हिंसाशीले, घोरे, भये, हरे, भीमसेने च पुं०, मांस्याम्, काकादन्याम्, एलवालुकायाम्, नाड्याम्, जटामांस्याम्, गवेधुकायाम्, शिरायां च स्त्री० " । अत्र घातुकार्थः । तैः हिंस्त्रैः - घातुकैर्व्याघ्रादिभिः इत्यर्थः । मन्यते जानात्यर्थमिति ‘अस्' ॥९५२॥ इति 'उणादि श्रीसि० ' सूत्रेण 'मनिच्-ज्ञाने' इति धातोः अस्प्रत्यये मन:- नोइन्द्रियम् । “अन्तःकरणं मानसं मनः, हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चलेः " इति हैर्म: । 'यदवोचामस्तर्के सर्वार्थसंग्रहणं मनः' इति तद्वृत्तौ । 'पाणि० ' मते 'मन्- बोधे' दिवादिः आत्मने० ० सक० अनिट्धातो: तनादि: आत्म० सक० सेट्धातोर्वा मन्यतेऽनेनेति असिप्रत्यये करणे असुन्प्रत्यये वा मनः, सर्वेन्द्रियप्रवर्तके अतीन्द्रिये इति न्यायमते, १. अनेकार्थसङ्ग्रहे तृ० ५४३ । २. अभि० चि०तृ० ३६९ । ३. अनेकार्थसङ्ग्रहे द्वि० ४६१ । Jain Education International ४. अभि० चि० ष० १३६९ । For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy