SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६० अनुसंधान-२६ तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुप्तामनुसंविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥२४॥ तामिति । गोपायतीति 'गुपौ-रक्षणे' धातोः कर्तरि तृच्प्रत्यये गोपा(ता)रक्षको दिलीपः । गृहमस्त्यस्यां, गृहशब्दात् अस्त्यर्थे इनि ततो ङ्यां च गृहिणी । "अथ सर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैमः । गेहिनीत्यपि । गृहिणी भार्यायां, गेहकर्मकुशलायाम् । “गृहिणी सचिवः सखीमिथः" इति रघुः । सह अयते-गच्छतीति सहायः । "सहायोऽभिचरोऽनोश्च जीवि-गामि-चर-प्लवाः सेवकः" इति हैमः । "सहायः सहचरेऽनुकूले च असावनुक्तोऽपि सहाय एव" इति कुमारः । गृहिणी सहायो यस्य सः गृहिणीसहायः । अन्तोऽस्त्यस्य इत्यन्तशब्दादिकप्रत्यये अन्तिकम् । “पार्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षाः सदेशमभ्यग्रसनीडसन्निधानान्युपान्तं निकटोपकण्ठे सन्निकृष्टसमर्यादाभ्यर्णान्यासन्नसन्निधी" इति हैमः । यद्वा अन्त्यते सम्बध्यते सामीप्येनेति अन्तधातोः घञ्प्रत्यये अन्तः सोऽस्याऽस्तीति मत्वर्थीय ठनि अन्तिकः । 'सामीप्यवति, स्वार्थे ठनि, सामीप्ये पुं० चूल्ल्यां नपुं०, औषधिभेदे स्त्री० । न्यस्यन्ते स्मेति निउपसर्गात् अस्धातोः कर्मणि ते न्यस्ताः त्रिलि० । "क्षिप्ते, त्यक्ते. विसष्टे. निहिते च" । बलत्यनेनेति 'पदि-पठि-पचि-स्थलि-हलि-कलि बलि-वलि-वल्लि-पल्लि-कटि-चटि-वटि-बधि-गाध्यचि-वन्दि-नन्धवि-वशिवाशि-काशि-छर्दि-तन्त्रि-मन्त्रि-खण्डि-मण्डि-चण्डि-यत्यञ्जि-मस्यसि- वनिध्वनि-सनि-गमि-तमि-ग्रन्थि-श्रन्थि-जनि-मण्यादिभ्यः' ॥६०७॥ इति 'उणादिश्रीसि०' सूत्रेण बल-प्राणनधान्यावरोधयोः' इति धातोः इप्रत्यये" बलिः पुंस्त्रीलिङ्गः" देवतोपहारः दानवश्च । "उपहारबली समौ" इति हैमः । “भूतयज्ञो बलिः" इति वा हैमः । यद्वा बल्धातोः इनप्रत्यये बलि: पुं० । पूजोपहारे । "ददतुस्तौ बलिं चैव, निजगात्रासृगुक्षितं" इति चण्डी । राजग्राह्ये भागे, उपप्लवे, चामरदण्डे, जैनेतरगृहस्थकर्तव्यपञ्चयज्ञमध्ये भूतयज्ञे - 'बलिकर्म १. अभि० चि० तृ० ५१२-१३ । २. अभि० चि० तृ० ४९६ । ३. अभि० चि० ष० १४५०-५१ । ४. अभि० चि० तृ० ४४७ । ५. अभि० चि० तृ० ४२२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy