SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४६ अनुसंधान-२६ "अब्भुट्ठाणदंडग्गहणपायपुंछणासणपयाणगहणादीहिं सेवा जा सा भत्ती भवइत्ति" निशीथचूर्णौ । 'भक्तिः उचितप्रवृत्त्या विनयकरणे' इति आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ। 'विनयवैयावृत्त्यादिरूपा प्रतिपत्तिर्भक्ति'रिति धर्मसङ्ग्रह द्वितीयाधिकारे । 'यथोचितबाह्यप्रतिपत्तौ' आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ गच्छाचारवृत्तौ धर्मरत्नवृत्तौ च । 'भक्तिरुचितोपचारः' इति दशवैकालिकनवमाध्ययनप्रथमोद्देशकवृत्तौ। ____ 'अभ्युत्थानादिरूपे बहुमाने' इत्युत्तराध्ययनप्रथमाध्ययनपाइयटीकायाम्। 'भत्ती आयरकरणं जहोचियं जिणवरिंदसाहूणं' इति संस्तारकप्रकीर्णके। 'अनुरागे भक्तिः' इति धर्मसंग्रहप्रथमाधिकारे । 'अन्तःकरणादिप्रणिधाने भक्तिः' इति आवश्यकद्वितीयाध्ययने दर्शनशुद्धौ च । 'भक्तिः स्याद्गुरुदेवादौ' इति वचनात्तु गुरुदेवादिविषयिणी इच्छा भक्तिः । अनुष्ठानचतुष्टये प्रीतिभक्तिवचनासङ्गात्मके तु भक्तिविशेषितानुष्ठानस्वरूपमिदम् गौरवविशेषयोगाच्छुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥१॥ इतरतुल्यमपीति प्रीत्यनुष्ठानसदृशमपि, तत्स्वरूपं च यथा यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥१॥ प्रीतिभक्त्योरियान् विशेषो दृष्टान्तद्वारेण अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञानं स्थात्प्रीतिभक्तिगतम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy