SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३८ अनुसंधान-२६ तमा विभावरी रजनी वसतिः श्यामा वासतेयी तमस्विनी उषा दोषेन्दुकान्ता" इति हैम:' । यद्वा 'पा० ' मते क्षपयति चेष्टामिति क्षैधातोः णिचि पुकि च क्षपा रात्रौ । दिनं च क्षपा च दिनक्षपे । 'मव् बन्धने' मव्यत इति 'शिक्यास्याढ्य - मध्य- विन्ध्य- धिष्ण्याघ्न्यहर्म्य - सत्य - नित्यादयः " ॥ ३६४ ॥ इति 'उणादिश्रीसि० 'सूत्रेण वस्य धेयान्ते (धत्वे) च निपातने मध्यम् । " मध्यमन्तरे" [ इति हैम: २ ] | स्वरभेदेऽपि "ते मन्द्र-मध्य- तारा स्युरुरः कण्ठ शिरोद्भवाः" इति हैमः । दत्तिलोऽपि आह हैमः । नृणामुरसि मन्द्रस्तु द्वाविंशतिविधो ध्वनिः । स एव कण्ठे मध्यः स्यात्तारः शिरसि गीयते ॥ १ ॥ मध्यं लयविशेष: । "द्रुतं विलम्बितं मध्यमोघस्तत्वं घनं क्रमात्" इति भागुरिरप्याऽऽह - "लम्बितद्रुतमध्यानि तत्त्वौघानुगतानि तु" । इति । मव्यते बध्यते मे स्वराद्यत्र मध्यः । " मध्योऽवलग्नं विलग्नं मध्यमः " इति हैम: ५ | 'पाणि० 'मते तु मन्धातोः यकि नस्य घे च निरुक्तेः मध्यं पुं० न० । " देहस्याऽवयवभेदे, नृत्यादौ मन्दत्वशीघ्रत्वभिन्ने, व्यापारभेदे, पूर्वापरसीमयोरन्तराले परार्ध्यसङ्ख्यातोऽर्वाचीनायां सङ्ख्यायां न० तत्सङ्ख्याते च" । "अन्त्यं मध्यं परार्ध्यं चे" ति लीलावती । "ज्योतिषोक्ते, ग्रहाणां गतिभेदे स्त्री०, तद्वति ग्रहे पु०, न्याय्ये, अन्तवर्तिनि च त्रिलि०" । "मध्यं न्याय्येऽवलग्ने अन्तर्" इति अनेकार्थसंग्रहः । इह त्वन्तः दिनक्षपयोर्मध्यं दिनक्षपामध्यम् । गम्यते स्मेति गता । दिनक्षपामध्यं गता दिनक्षपामध्यगता । ६ सन्ध्यायन्त्यस्यामिति, यद्वा सज्येते सन्धीयेत अहोरात्रावस्यामिति सञ्ज्धातो: 'सञ्जेर्व् च' ॥ ३५९ ॥ इति 'उ० श्रीसि० ' सूत्रेण यप्रत्ययो धोऽन्तादेशश्चेति सन्ध्या । " सन्ध्या तु पितृसूः" इति हैम: । यद्वा 'पा० 'मते सम्पूर्वात् १. अभि० चि० द्वि० १४१-४२-४३ । ३. अभि० चि० ष० १४०२ । ५. अभि० चि० तृ० ६०७ । ७. अभि० चि० द्वि० १४० । Jain Education International २. अभि० चि० ष० १४६० । ४. अभि० चि० द्वि० २९२ । ६. अनेकार्थसङ्ग्रहे द्वि० ३६५ । For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy