SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२६ ऊनं-दुर्बलम् हरिणादिकम् । न बबाधे-न पीडयामास ॥ वाच्यपरिवर्तनं त्वेवम्- गोप्तरि तस्मिन् (सति) वनं गाहमाने (सति) दवाग्निना वृष्ट्या विनाऽपि शेमे । फलपुष्पवृद्ध्या विशेषया अभूयत । सत्त्वेषु अधिकेन ऊनं न बबाधे । __ अहो ! अलौकिकः प्रभावस्तस्य राजर्षेर्यस्मिन् प्रविष्टमात्र एव तस्मिन् महावने वृष्ट्या विनाऽपि वनाग्निः शशाम, वृक्षलतादयोऽपि प्रभूतया फलपुष्पलक्ष्म्या चकासिरे, प्रबलाश्च जीवा निर्बलहिंसनात् विरेमुः । सबलो वन्यजन्तुर्दुर्बलं न बाधते स्म, इति सरलार्थः ॥१४॥ सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥१५॥ सञ्चारेति । पल्यते सम्पदा इति ‘पल(ल्ल)-गता' विति भ्वादिगणधातोः क्विपि पल, लूयते इति 'ल[गश] छेदने' इति क्रयादिगणधातोः कर्मणि अपि लवः, पल् चाऽसौ लवश्च पल्लवः । “पल्लवोऽस्त्री किसलयम्" इत्यमरः । अभिनवः पत्रविस्तारः । “रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु" इति शाश्वतः । अत्र रज्यतेऽनेनेति करणे 'घबि' । 'घबि भावकरणे' (४।२।५२।।) इति 'श्रीसि०हे०श०' सूत्रेण 'घञ्च (घजि च) भावकरणयोः' [६।४।२७||] इति 'पाणिनीय' सूत्रेण च न लुपि राग:-वर्णविशेषः । आध्यात्मिकविचारे तु विषयेषु इमे शोभना इत्यध्यासेन 'रञ्जनस्वरूपाऽभिनिवेशात्मिका या चित्तवृत्तिः । सा रागः' पल्लवस्य रागः पल्लवरागः । ताम्यतीति इच्छार्थकदिवादिगणीय तम्' धातोः अकि दीर्घ ताम्रा । पल्लवराग इव ताम्रा पल्लवरागताम्रा । पतन् सन् गच्छतीति पतङ्गः, अथवा पततौ इति भ्वादिश्चुरादिश्च पतृ ऐश्ये च दिवादिः । अत्र पततीति भ्वादिपत्धातोः अङ्गचि पतङ्गः , तस्य पतङ्गस्य-सूर्यस्य । “पतङ्गः पक्षिसूर्ययोः" इति शाश्वतः । “पतङ्गः सूर्ये शलभे खगे शालिभेदे मधूकवृक्षे च" । प्रकर्षेण भातीति प्रभा-कान्तिः । मन्यते जगतस्त्रिकालावस्थामिति, मननशीलो वा मुनिः, तस्य मुनेः धेनुः । च । दिशामन्तराणितानि दिगन्तराणि-दिगवकाशान् । “अन्तरमवकाशावधि १. अम० द्वि० वनौषधिवर्गे - ६७७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy