SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ December 2003 , वा । उद्ग्रथ्यन्ते स्मेति उद्ग्रथिताः । लताप्रतानैः लतासम्बन्धिकुटिलतन्तुभिः उद्ग्रथिता-उन्नमय्य ग्रथिता लताप्रतानोद्ग्रथिताः तैः लताप्रतानोद्ग्रथितैः । केशैः कचैः । सिद्धहेममते 'हेतुकर्तृकरणेत्थम्भूतलक्षणे' (२२|४४|| ) इति तृतीया । "चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः" इत्र्त्यमरः । पाणिनीयमते तु 'इत्थम्भूतलक्षणे' [२|३|२१|| ] इति तृतीया । "वल्ली तु व्रततिर्लता" इत्यमरः । उपलक्षितस्स राजा । ज्यामधिरूढं अधिज्यं - आरोपितमौर्वीकं, अधिज्यं धनुर्यस्य स अधिज्यधन्वा सन् । सिद्धहेममते ' धनुषो धन्वन्' (७|३|१५८II) इति बहुव्रीहौ 'धन्वन्' आदेशः । पाणिनीयमते तु 'धनुषश्च' [ |५|४|१३२॥] इति 'अनङ्' आदेश: । होमाय धेनुः होमधेनुः । 'सिद्धहेम' मते हितादेराकृतिगणत्वात् ‘हितादिभिः' (३|१|७१ || ) अनेन तादर्थ्यचतुर्थ्यन्तस्याऽपि समासः । एवं अश्वघासादावपि ज्ञेयम् । यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास इति । 'पाणिनीय' मते तु होमस्य धेनुः होमधेनुः । अत्राऽश्वघासादिव तादर्थ्ये षष्ठीसमासः । मुनेः होमधेनुः मुनिहोमधेनुः, तस्याः मुनिहोमधेनोः । रक्षणं रक्षा । अपदिश्यतेऽपदिशनं वा इत्यपदेशः । रक्षायाः अपदेश: रक्षापदेशः, तस्मात् रक्षापदेशात्- रक्षणव्याजात् । वने भवा वन्याः, तान् वन्यान्काननोत्पन्नान् । “अटव्यरण्यं विपिनं गहनं काननं वनम्" इत्यमरः । दुष्टाश्च ते सत्त्वाश्च दुष्टसत्त्वास्तान्- दुष्टजन्तून्: हिंस्रजन्तून् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्र्त्यैमरः । सतो भावः सत्त्वं 'साङ्ख्यसिद्धे, प्रकाशादिसाधने, प्रकृत्यवयवे, पदार्थे । तत्र 'सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्' ॥ इति गीता । "सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रज: । गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥" १. अम० द्वि० मनुष्यवर्गे ३. अम० द्वि० वनौषधिवर्गे अयं द्वितकारः पृषोदरादित्वादेकतकारः । 'स्वभावे, द्रव्ये, बले, पिशाचादौ, प्राणेषु, व्यवसाये, रसे, आत्मनि, चित्ते, आयुषि धने च न्यायो - (वैशिषिको) क्ते सत्तारूपे, जातिभेदे, विद्यमानतायां च' । 'जन्तुषु तु पुंस्त्त्वे ६६६ । Jain Education International - १२६४ । ६५० । १९ - इति च साङ्ख्यकारिका [ ॥ १३ ॥ ] २. अम० द्वि० वनौषधिवर्गे ४. अम० तृ० नानार्थवर्गे - २७६१ For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy