SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ December - 2003 अत्र विषये जैनशास्त्रेऽपि तथैव व्यवस्था । निवर्त्य । सुरभेर्गोत्रापत्यं स्त्री सौरभेयी, तां सौरभेयीं-कामधेनुसुतां नन्दिनीम् । 'आयुधादिभ्यो धृगोऽदण्डादेः' (५।१।९४||) इति श्री सिव्हेश०' सूत्रे आदिशब्देन पयसोऽपि ग्रहणात् । पयांसि धरन्तीति पयोधराः । जलधरविषधर-शशधर-विद्याधर-श्रीधर-गङ्गाधर-जटाधरप्रभृतिष्वप्येवमेव । 'पाणिनीय' मते तु 'कर्मणोऽण् (कर्मण्यण) [३।२।१॥] इति सूत्रस्य बाधकत्वात् तथा न। तन्मते तु धरन्तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । "स्त्रीस्तनाब्दौ पयोधरौ" इत्यमरः । न पयोधरा अपयोधराः । 'श्रीसिव्हेश०' मते अपयोधराः पयोधराः भूताः (भवन्ति स्म) पयोधरीभूताः । 'पाणिनीय' मते तु अपयोधराः पयोधराः यथा सम्पद्यमाना (भूताः) पयोधरीभूताः । 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे च्विः' (७।२।१२६।।) इति 'श्रीसिव्हेश' सूत्रेण 'च्विः' । 'कृभ्वस्तियोगे संपद्यकर्तरि च्विः' [पा० ५।४/५०॥] । 'विविधावभूततद्भावग्रहणं' इति वार्तिकोक्तेऽर्थे च्विः । श्री सिव्हेश०' मते 'अप्रयोगीत्' (१।१॥३७॥) इति सूत्रेण च्वेर्लुक् । 'पाणिनीय'मते तु 'चुटु(टू)' [१॥३७॥] इति च्चिप्रत्ययगतचकारस्येत्संज्ञा । वेरिकारस्य च इत्संज्ञायां 'वेरपृक्तस्य' [६।१।६७।।] इति सूत्रेण वकारस्य च लोपः । 'प्रत्ययलोपे प्रत्ययलक्षणम्' [पा० १।२।६२॥] इत्यनेन घ्यन्तत्वं कल्पनीयम् । ततश्च 'ईश्च्वावर्णस्याऽनव्ययस्य' (४।३।१२७ (१११)।) इति 'श्रीसिव्हेश०' सूत्रेण 'अस्य च्वै (च्वौ)' [७।४।३२॥] इति 'पा०' सूत्रेण च पयोधरघटकाकारस्य ईः । 'ऊर्याद्यनुकरणच्चिडाचश्च गतिः' (३६१।२।।) इति 'श्रीसि०हे०श०' सूत्रेण 'ऊर्यादिच्विडाचश्च' [१।४।६१॥] इति 'पा०' सूत्रेण च च्व्यन्तस्य गतिसंज्ञा । ततश्च 'गतिक्वन्यस्तत्पुरुषः' (३।१।४२॥) इति 'श्रीसि०हे.श०' सूत्रेण 'कुगतिप्रादयः' [२।२।१८।।] इति 'पा०' सूत्रेण च समासः । समीचीना उद्रा-जलजन्तुविशेषादयो यत्र, सह मुद्रया वेलया वर्तते इति वा समुद्रः । पयोधरीभूताश्चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुःसमुद्रा, तां पयोधरीभूतचतुःसमुद्राम्-ऊधीभूतचतुःसागराम् । 'एकार्थं चानेकं च' (३।१।२२।।) इति श्रीसिव्हेश०' सूत्रेण त्रिपदो बहुव्रीहिः । 'अनेकमन्यपदार्थे' [२।२।२४॥] इति 'पा०' सूत्रेणाऽनेकपदग्रहणसामर्थ्यात् त्रिपदो बहुव्रीहिः । १. अम० तृ० नानार्थवर्गे - २६६२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy