SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२६ 'ट्धे-पाने' 'पाणि०' मते च 'धेट-पाने' इति धातोः धयति तामिति धेनुः । यद्वाऽन्तर्भावितण्यर्थत्वे धयति सुतानिति धेनुरित्यपि संभवति । धेनुः नवप्रसूतायां गवि । तां धेनुम् । वनाय गन्तुं 'गम्यस्याऽऽप्ये' (२।२।६२॥) इति 'श्री सिव्हे०' सूत्रेण 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' [२॥३॥१४॥] इति च 'पाणि०' सूत्रेण चतुर्थी । मुमोच-मुक्तवान् । अत्र जायापदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसन्धेयम् । तथा हि "पतिर्जायां प्रविशति, गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा, दशमे मासि जायते ॥ तज्जाया जाया भवति, यदस्यां जायते पुनः ॥” इति । यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद् राजानहें गोरक्षणे प्रवृत्त इति गम्यते । ___ अस्मिन् सर्गे वृत्तमुपजातिः । “अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः" इति तल्लक्षणम् । वाच्यपरिवर्तनं त्वेवम् अथ प्रभाते यशोधनेन प्रजानामधिपेन जायाप्रतिग्राहितगन्धमाल्या पीतप्रतिबद्धवत्सा ऋषेर्धेनुर्वनाय मुमुचे ॥ प्रभातसमये नृपमहिषी सुदक्षिणा मालाचन्दनादिभिर्नन्दिनी सम्यक्तयाऽर्चयामास । वत्सं च प्रथमं स्तन्यं पाययित्वा पश्चाद् बबन्ध । ततो यशःपरायणः स दिलीपो वने स्वच्छन्दगमनाय तां नन्दिनीं मुक्तवान्, इति सरलार्थः । ___अथ सर्गारम्भेऽथशब्दप्रयोगपूर्वकसर्गप्रारम्भयित्रा ग्रन्थकारेण 'ओंकाराथकारौ' इत्यादिशुक्लयजुर्वेदप्रातिशाख्यीयका:(क) १७ सूत्रस्य 'भाष्यकारोवट्टाचार्येणाऽर्थोऽकारि यत्, मङ्गलार्थावेतावित्यर्थकरणादपि सर्गप्रारम्भे अथशब्देन मङ्गलपूर्विका द्वितीयसर्गस्य प्रवृत्तिरिति दर्शितम् । “मङ्गला-नन्तरारम्भप्रश्नकात्स्न्र्येष्वथोऽथ" इति [अमरः] कोशवाक्यादनन्तरार्थोऽप्यथशब्दः तेन निशानयनानन्तरमित्यप्यावेदितम् । एवमेवा"ऽथाऽतो ब्रह्मजिज्ञासा" इत्युत्तरमीमांसाग्रन्थेऽनन्तरार्थोऽथशब्दः । आरम्भार्थस्तु "अथ योगानुशासनम्" इत्यत्र पातञ्जलयोगदर्शनशास्त्रे । प्रश्नार्थ-कात्यार्थयोस्तु प्रसिद्ध एव । अत्र तु १. अम० तृ० नानार्थवर्गे- २८२९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy