________________
आचार्यश्रीविजयनेमिसूरिविरचिता रघुवंश द्वितीयसर्गटीका ॥
सं. मुनिधर्मकीर्तिविजय अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥१॥
अथेति । अथ - कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरम् । कुलपतिस्वरूपं चेदं पुराणे
"मुनीनां दशसाहस्यमन्नदानादिपोषतः (षणात्) ।
अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥१॥"
प्रकर्षण भातीति प्रभातं, यदि वा भातुं प्रवृत्तं प्रभातम् । 'भांक्-दीसौ' इति धातोः 'आरम्भे' (सि. ५।१।१०।) इति 'क्त' प्रत्यये सिद्धम् । 'पाणिनि' मते तु 'भा-दीप्तौ' धातोः 'आदिकर्मणि (१) कर्तरि च' (३।४।७१॥) इति सूत्रेण 'क्त'प्रत्यये प्रभातम् । "प्रभातं स्यादहर्मुखम्, व्युष्टं विभातं प्रत्यूषं कल्यप्रत्यू(त्यु)षसी उषः, काल्यम् ।। इति हैम:' । तस्मिन् प्रभाते-प्रातःकाले । यश एव धनं यस्य स यशोधनः । प्रकर्षेण जायन्त इति, प्रजाता इति वा प्रजाः । प्रपूर्वात् 'जनैचि-प्रादुर्भावे' इति धातोः 'क्वचित्' (५।१।१७१॥) इति 'हैम'सूत्रेण 'ड' प्रत्यये 'डित्यन्त्यस्वरादेः' (२।१।११४॥) इति 'हेम'सूत्रेणाऽन्त्यस्वरादिलोपे 'आत्' (सि० (२।४।१८॥) इति सूत्रेण । 'ड' प्रत्यये 'टेः' (पा० ६।४।१४३॥) इति सूत्रेण टिलोपे । 'अजाद्यतष्टाप्' (पा० ४।१।४||) इति सूत्रेण टापि प्रजाः । "लोको जनः प्रजा" इति हैम: । "प्रजा स्यात्सन्ततौ जने" (इत्यमरः) । तासां प्रजानाम् । अधि पाति, अधि समन्तात् पातीत्यधिपः प्रजेश्वरः । अधिपूर्वात् 'पा(पां)क्-रक्षणे' इति धातोः 'उपसर्गादातो डोऽश्यः' [सि०] (५।१।५६।।) इति सूत्रेण 'ड' प्रत्यये "डित्यन्त्यस्वरादेः' [सि०] (२।१।११४॥) इत्यन्त्य
१. २. ३.
अभिधानचिन्तामणिकोशे द्वितीयकाण्डे- १३८-१३९ । अभिधानचिन्तामणिकोशे तृतीयकाण्डे- ५०१ ।। अमरकोशे तृतीयकाण्डे नानार्थवर्गे - २३९८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org