________________
December
-
2003
णकारमन्त्राक्षरजप्तनामा, णमा" नवव्राजसभाजितांघ्रिः १७ । णमां“ प्रदद्यात् सकलां गणेशो, णदायकः ९ शान्तिविधायकश्च ||६||
ततसुदीधितिराऽऽशु तमस्तति, तरणिरेष विनाशयतु प्रगे । तरुणसत्किरणैररुणैररं,
तमसनाशकरः २० कृतपद्ममुत्" ॥७॥
थं देहि सद्यो लसदुत्पलानां, थट्टै:२३ कलानां कलितो दिनेशात् । थे चोदयस्योदितत: २४ सुकान्ते, थोरोहिणीनायक चन्द्रमस्त्वम् ॥८॥
दिक्पालमुख्यो दयितो जनानां, दक्षक्षमानाथमन:प्रमोदी । दिष्टिं२५ विशिष्टां हि सुभिक्षकारी, दद्यात्तमां सोमसुदैवतोऽसौ ||९||
Jain Education International
१११
धनपतिः सुरनायकसेवको, धवलरूप्यमहीध्रकृताश्रयः । धनद एव समृद्धिविधायको, धरतु श च यच्छतु सुश्रियम् ॥१०॥
१६. योग्य । १८. स्पष्टलक्ष्मीम् ।
१७. सेवित् ।
१९. ज्ञानदाता ।
२०. अन्धकारनाशकरः ।
२१. हर्षः ।
२२. भीत्रणम् । ?
२३. सङ्घैः ।
२४. किम्भूताद्धि थेचोदयस्य उदयस्य थे पर्वते - उदयाचले इत्यर्थः उदिततः उदिता
इत्यर्थः ।
२५. आनन्दम् ।
For Private & Personal Use Only
www.jainelibrary.org